________________
पञ्चदशः सर्गः
३०१
व्याख्या-भृता=पोषिता=पालिता प्रजा=लोकः येन स भृतप्रजः रामः= राघवः युधां = युद्धं जयतीति युधाजित् तस्य युधाजितः =भरतमातुलस्य सन्देशात् =वाचिकात्, कथनादित्यर्थः। स्यन्दन्ते आपोऽत्र स सिन्धुः नाम यस्य स सिन्धुनामकस्तं सिन्धुनामकं केकयदेशमित्यर्थः । देशं = राष्ट्र दत्तः = वितीर्ण प्रभावः = सामर्थ्य “रामेण" यस्मै स तस्मै दत्तप्रभावाय भरताय = कैकेयीपुत्राय ददौ = दत्तवान् ।
समासः-सिन्धुःनाम यस्य स सिन्धुनामकस्तं सिन्धुनामकम् । दत्तः प्रभावः यस्मै स तस्मै दत्तप्रभावाय । भृता प्रजा येन स भृतप्रजः ।
हिन्दी-प्रजा का पालन करने वाले राम ने, भरत के मामा युधाजित् के कहने से, सिन्धु नामक देश ( केकय ) प्रभावशाली भरत को दे दिया। अर्थात् भरत जी को मामा का राज्य मिला ॥ ८७॥
भरतस्तत्र गन्धर्वान्युधि निर्जित्य केवलम् ।
आतोद्यं ग्राहयामास समत्याजयदायुधम् ॥ ८८ ॥ ___ तत्र सिन्धुदेशे भरतोऽपि युधि गन्धर्वान्निजित्य केवलमेकमातोयं वीणाम् । 'ततं वीणादिक वाद्यमान मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं धनम्। चतुर्विधमिदं वाचं वादित्रातोद्यनामकम् ॥' इत्यमरः। ग्राहयामास। आयुधं समत्याजयत्त्याजितवान् । ग्रहित्यज्योर्ण्यन्तयोद्धिकर्मकत्वं नित्यमित्यनुसंधेयम् ॥
अन्वयः-तत्र भरतः युधि गन्धर्वान् निर्जित्य केवलम्, आतोचं ग्राहयामास, आयुधं समत्याजयन् । ___ व्याख्या-तत्र = सिन्धुनामके देशे बिभर्ति लोकान् , स्वांगं वा भरतः =रामानुजः अपि युधि =संग्रामे गन्धम् = सौरभम् अर्वन्तीति गन्धर्वास्तान् गन्धर्वान् = किन्नरान् निर्जित्य = विजित्य केवलम् = एकम् आसमन्तात् तुद्यते = ताड्यते इति आतोयम् = वाद्ययंत्रं =वीणामित्यर्थः । “चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्" इत्यमरः। ग्राहयामास = स्वीकारयामास आयुधं = शस्त्रं समत्याजयत् = त्याजितवान् । ग्रहित्यज्यौर्ण्यन्तयोः नित्यद्विकर्मकत्वेन गन्धर्वान्, आतोद्यमिति च कर्मद्वयम् ।
हिन्दी-वहाँ सिन्धु प्रदेश में भरत ने भी युद्धस्थल में गन्धर्यों को परास्त करके, उनके हाथों में वीणा तो पकड़ा दी, और शस्त्रास्त्र छुड़वा दिया ॥ ८८ ॥
स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः।
अभिषिच्यामिषेकाहौँ रामान्तिकमगात्पुनः ॥ ८९ ॥ स भरतः। अभिषेकाहीँ तक्षपुष्कलौ नाम पुत्रौ तदाख्ययोः। तक्षपुष्कलाख्ययोरित्यर्थः। पुष्कलं पुष्कलावत्यां तक्षं तक्षशिलायामिति राजधान्योनंगर्योरभिषिच्य पुना रामान्तिकमगात् ॥
अन्वयः-सः अभिषेकाहीँ तक्षपुष्कलौ नाम पुत्रौ तदाख्ययोः राजधान्योः अभिषिच्य पुनः रामान्तिकम् अगात् ।