________________
रघुवंशे तस्य = रामस्य धरायां = विश्वम्भरायां विषये संरम्भं = क्रोधं विधेः =देवस्य बलं = सामर्थ्यम् अपेक्षते तच्छीलः विधिबलापेक्षी दैवविधानदर्शीत्यर्थः। गुरुः = वसिष्ठः, वाल्मीकिश्चशमयामास = शमयाञ्चक्रे, विधेः अवश्यं भावित्वात् रामक्रोधं निवारयामासेत्यर्थः ।
समासः-अर्पणंप्रति प्रत्यर्पणं, सीतायाः प्रत्यर्पणमिति, सीताप्रत्यर्पणं तस्य ऐषी, सीताप्रत्यर्पणैषी तस्य सीताप्रत्यर्पणैषिणः। विधेः बलमिति विधिबलं, विधिबलस्य अपेक्षी इति विधिलापेक्षी।
हिन्दी-सीता जी के लौटा लेने की इच्छावाले अत एव धनुष उठाए हुए, राम के पृथिवी के ऊपर क्रोध को, विधि का विधान ही बलवान् है इसको देखने जानने वाले वशिष्ठ जी एवं वाल्मीकि जी ने शान्त किया। अर्थात् होनहार ऐसी है कहकर पृथिवी से सीता को, मारकर ले आने के राम के क्रोध को शान्त किया ॥ ८५ ॥
ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् ।
रामः सीतागतं स्नेहं निदधे तदपत्ययोः ॥ ८६ ॥ रामो यज्ञान्ते पुरस्कृतान्पूजितानृषीन्सुहृदश्च विसृज्य सीतागतं स्नेहं तदपत्ययोः कुशलवयोनिदधे ॥
अन्वयः-रामः यशान्ते पुरस्कृतान् ऋषीन् , सुहृदश्च विसृज्य, सीतागतं स्नेहं तदपत्ययोः निदधे।
व्याख्या-रामः =रामचन्द्रः यशस्य =अश्वमेधस्य अन्तः = समाप्तिः, तस्मिन् यशान्ते पुरः अकारिषत इति पुरस्कृतास्तान् पुरस्कृतान् = पूजितान् “पुरस्कृतः पूजिते' इत्यमरः । ऋषीन् = वाल्मीक्यादीन् सुहृदः = मित्राणि विभीषणादीन् च विसृज्य = स्वगृहान् प्रेष्य सीतायां गतं सीतागतं =सीताविषयकं स्नेहं = प्रेम तस्याः = सीतायाः अपत्ये = पुत्रौ तयोः तदपत्ययोः निदधे = निहितवान् । यावत्प्रेम सीतायामासीत् तावत्तदपत्ययोः कृतवानित्यर्थः ।
समासः-सीतायां गतमिति सीतागतम् । तस्याः अपत्ये तदपत्ये तयोः तदपत्ययोः ।
हिन्दी-अश्वमेध यज्ञ की समाप्ति होने पर राम ने, ऋषि और मित्रों को सत्कारपूर्वक बिदा करके सीता के प्रति उनका जितना प्रेम था उतना ही प्रेम वे सीता के पुत्र लव कुश को करते थे ॥ ८६ ॥
युधाजितश्च संदेशात्स देशं सिन्धुनामकम् ।
ददौ दत्तप्रभावाय भरताय भृतप्रजः ॥ ८७ ॥ किंच । भृतप्रजः स रामो युधाजितो भरतमातुलस्य संदेशात्सिन्धुनामकं देशं दत्तप्रभावाय दत्तैश्वर्याय । रामेणेति शेषः । भरताय ददौ ॥
अन्वयः-"किंच" भृतप्रजः सः युधाजितः सन्देशात् सिन्धुनामकं देशं दत्तप्रभावाय भरताय ददौ।