________________
पञ्चदशः सर्गः
२९९
समासः-नागानां फणाः, नागफणाः, नागफणैः उत्क्षिप्तं यत् सिंहासनं तत्र निषेदुषी, इति नागफणोत्क्षिप्तसिंहासननिषेदुषी। समुद्रः रशना यस्याः सा समुद्ररशना ।
हिन्दी-उस कान्तिपुञ्ज से शेषनाग के फणों के ऊपर रखे हुए सिंहासन पर बैठी हुई, तथा समुद्र की तगड़ी पहने, साक्षात् धनों को धारण करने वाली, पृथिवी माता, प्रगट हो गई ॥ ८३॥
सा सीतामङ्कमारोप्य भर्तृप्रणिहितेक्षणाम् ।
मा मेति व्याहरत्येव तस्मिन्पातालमभ्यगात् ॥ ८४ ॥ सा वसुंधरा भर्तरि प्रणिहितेक्षणां दत्तदृष्टिं सीतामङ्कमारोप्य तस्मिन्भर्तरि रामे मामेति मा हरेति व्याहरति वदत्येव । व्याहरन्तमनादृत्येत्यर्थः । 'षष्ठी चानादरे' इति सप्तमी। पातालमभ्यगात् ॥
अन्वयः-सा भर्तृप्रहितेक्षणां सीताम् अंकम् आरोग्य, तस्मिन् मा मा इति व्याहरति एव पातालम् अभ्यगात् ।
व्याख्या-सा= विश्वम्भरा भर्तरि = रामे प्रणिहिते = दत्ते, स्थापिते ईक्ष्णे = नेत्रे यया सा भर्तृप्रणिहितेक्षणा तां भर्तृप्रणिहितेक्षणाम् सीतां = स्वपुत्री जानकीम् अंक = क्रोडम् , उत्संगमित्यर्थः । आरोप्य =संस्थाप्य, तस्मिन् = भर्तरि = रामे मा मा = न न, इति = एवं व्याहरति = कथयति एव पतन्ति यत्र पापात् तत् पातालं = नागलोकम् अभ्यगात् = अभ्यगच्छत् । मा मा नय, इति कथयन्तं =राममनादृत्य पातालं गतेत्यर्थः।।
समासः–भर्तरि प्रणिहिते ईक्षणे यया सा भर्तृप्रणिहितेक्षणा तां भर्तृप्रणिहितेक्षणाम् । हिन्दा-वह पृथिवी माता उस सीता जी को गोद में बैठाकर पाताल लोक में चलो गई। जो सीता राम को एकटक देख रही थी तथा राम कहते हो रहे कि ऐसा मत करो, ऐसा मत करो ॥ ८४ ॥
धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणः ।
गुरुर्विधिबलापेक्षी शमयामास धन्विनः ॥ ८५ ॥ सीताप्रत्यर्पणमिच्छतीति तथोक्तरय धन्विन आत्तधनुषस्तस्य रामस्य धरायां विषये संरम्भ विधिबलापेक्षी दैवशक्तिदर्शी गुरुर्ब्रह्मा शमयामास । अवश्यंभावी विधिरिति भावः ।।
अन्वयः-सीताप्रत्यर्पणैषिणः धन्विनः तस्य धरायां “विषये" संरम्भं विधिबलापेक्षी गुरुः शमयामास। __व्याख्या–अर्पणं प्रति प्रत्यर्पणं, सीतायाः =जानक्याः प्रत्यर्पणं = परावर्तनमिति सीताप्रत्यर्पणं, तदिच्छति = अभिलषतीति सीताप्रत्यर्पणैषी तस्य सीताप्रत्यर्पणैषिणः, धन्वाऽस्यास्तीति धन्वी तस्य धन्विनः = धनुष्मतः “धन्वा तु मरुदेशे न क्लीबं चापे स्थलेऽपिच" इति मेदिनी।