________________
२९८
रघुवंशे
एवमुक्त तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः ।
शातहदमिव ज्योतिः प्रभामण्डलमुद्ययौ ।। ८२ ।। साध्व्या पतिव्रतया तया सीतयैवमुक्ते सति सद्योभवाद्भुवो रन्ध्राच्छातह्रदं वैद्युतं ज्योतिरिव प्रभामण्डलमुद्ययौ ॥ __ अन्वयः-साव्या तया एवम् उक्ते सति सद्यः भवात् भुवः रन्ध्रात् शातहदं ज्योतिः इव प्रभामण्डलम् उद्ययौ।
व्याख्या-साध्नोति परकार्य, परलोकं वा सा साध्वी, तया साध्व्या = पतिव्रतया तया = जानक्या, एवं = पूर्वोक्तप्रकारेण उक्ते = कथिते सति सद्यः = तत्क्षणे भवति = प्रकटतीति सद्योभवस्तस्मात् सद्योभवात् भुवः = पृथिव्याः रन्ध्रात् = च्छिद्रात् शतंह्रदाः = अव्यक्ताः शब्दाः यस्याः सा शतह्रदा, शतंह्रदाः आर्चीसि, अगाधजलाशयाः वा सन्त्यस्याः सा शतदा । शतह्रदायाः इदं शातहदं = वैद्युतं, विद्युत्संबन्धि ज्योतिः = इरमदः, अग्निरित्यर्थः । इव = यथा "मेघज्योतिरिरंमदः" इत्यमरः । प्रभायाः = कान्तेः मण्डलं = समूहः, इति प्रभामण्डलं = तेज:पुञ्जः उद्ययौ = उद्गतः।
समासः-सद्यः भवः सद्योभवस्तस्मात् सद्योभवात् । शतंह्रदाः यस्याः सा शतहदा, तस्याः इदं शातहदम् । प्रभायाः मण्डलमिति प्रभामण्डलम् । __हिन्दी-सती साध्वी सीता के इस प्रकार कहते हो उसी क्षण बने पृथिवी के छिद्र से बिजली की चमक के समान एक तेजपुञ्ज (ज्योतिः ) ऊपर निकल आई। अर्थात् सीता के कहते ही जमीन फटी, और उससे ज्योति निकली ॥ ८२ ॥
तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी।
समुद्रशना साक्षात्प्रादुरासीद्वसुंधरा ॥ ८३ ॥ तत्र प्रभामण्डले नागफणोरिक्षप्ते सिंहासने निषेदुष्यासीना समुद्ररशना समुद्रमेखला साक्षात् । वसूनि धारयतीति वसुंधरा भूमिः । 'खचि ह्रस्वः' इति हस्वः। प्रादुरासीत् ।
अन्वयः-तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी समुद्ररशना साक्षात् वसुन्धरा प्रादुरासीत् । व्याख्या-तत्र = प्रभामण्डले नगे भवाः नागाः । न गच्छन्तीति अगाः, न अगाः नागाः । नागानां = काद्रवेयाणां फणाः = स्फटाः, भोगाः, इति नागफणाः, नागफणाभिः उत्क्षिप्तम् = ऊपरिधारितम् , उत्थापितमित्यर्थः। यत् सिंहासनं = सिंहाकारमासनं तत्र निषेदुषी = आसीना, उपविष्टा, इति नागफणोत्क्षिप्तसिंहासननिषेदुषी, फणशब्दः स्त्रियांपुल्लिगे च । “स्फटायांफणा द्वयोः" इत्यमरः। समुद्रः = सागरः रशना = मेखला यस्याः सा समुद्ररशना, सह अक्षेण साक्षः, साक्षमतति, इति साक्षात् = प्रत्यक्षं वसूनि = धनानि धारयतीति वसुन्धरा = पृथिवी प्रादुरासीत् = प्रादुर्बभूव ।