________________
पञ्चदशः सर्गः
अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः ।
आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥ ८० ॥
२९७
अथ वाल्मीकिशिष्येणावर्जितं दत्तं पुण्यं पय आचम्य सीता सत्यां सरस्वतीं वाचमुदीरयामासोच्चारयामास ॥
अन्वयः - अथ वाल्मीकिशिष्येण आवर्जितं पुण्यं पयः आचम्य, सीता सत्यां सरस्वतीम् उदीरयामास ।
-
व्याख्या -- अथ = मुनिकथनान्तरम् वाल्मीकेः = महर्षेः शिष्यः = छात्रः इति वाल्मीकि - शिष्य स्तेन वाल्मीकिशिष्येण आवर्जितं दत्तं पुणतीति पुणः, पुर्ण = शुभंकर्म अर्हति, तत्र साधुर्वा पुण्यं = पवित्रं पयः = जलम् आचम्य = उपस्पृश्य, पीत्वेत्यर्थः । सीता = जानकी स साध्वीति सत्या तां सत्यां तथ्यां "सत्यं तथ्यममृतं सम्यग् ” इत्यमरः । सरतीति सरः । सरः = ज्ञानमस्ति अस्याः सा सरस्वती तां सरस्वतीं = वाणीम् उदीरयामास = अवदत् = उक्तवतीत्यर्थः 1
=
समासः - वाल्मीकेः शिष्यः, वाल्मीकिशिष्यः, तेन वाल्मीकिशिष्येण ।
हिन्दी – मुनि की आज्ञा के पश्चात् महर्षि वाल्मीकि जी के शिष्य के द्वारा दिये गए पवित्र जल का आचमन करके सीता जी ने सत्य वचन कहा ॥ ८० ॥
वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे ।
तथा विश्वंभरे देवि मामन्तर्धातुमर्हसि ।। ८१ ॥
वाङ्मनःकर्मंभिः पत्यौ विषये मे व्यभिचारः स्खालित्यं न यथा नास्ति यदि तथा तर्हि । विश्वं बिभतीति विश्वंभरा भूमिः । ' संज्ञायां भृतॄ -' इत्यादिना खच्प्रत्ययः । 'अरुद्विषत् -' इत्यादिना मुमागमः । हे विश्वंभरे देवि, मामन्तर्घातुं गर्भे वासयितुमर्हसि ॥
अन्वयः—वाङ्मनःकर्मभिः पत्यौ मे व्यभिचारः न यथा, तथा हे विश्वम्भरे देवि ! माम् अन्तर्घातुम् अर्हसि ।
व्याख्या-वाक् = वचनं च मनः = चित्तं च कर्म = कार्यञ्चेति वाङ्मनः कर्माणि तैः वाङ्मनःकर्मभिः पत्यौ = भर्तरि विषये मे = मम सीतायाः व्यभिचारः = कुत्सिताचरणं, स्खलनमित्यर्थः न यथा = नास्तिचेत् तथा = तर्हि विश्व = संसारं बिभर्ति = धारयतीति विश्वंभरा पृथिवी, तस्याः संबुद्धौ हे विश्वम्भरे ! देवि ! मातः ! माम् = सीताम् अन्तर्धातुं = तिरोधातुम् अर्हसि - योग्यासि । स्वगर्भे वासयितुं योग्यासि इत्यर्थः ।
समासः - वाक् च मनश्च कर्म चेति वाङ्मनः कर्माणि तैः वाङ्मनः कर्मभिः ।
हिन्दी - मन वचन कर्म से किसी प्रकार भी यदि मैंने अपने पति के प्रति विश्वासघात ( पातिव्रत्य भंग ) न किया हो, तो हे पृथिवी माता ! तुम मुझ सीता को अपनी गोद में छिपा लो ॥ ८१ ॥
=