________________
२९६
रघुवंशे
अन्वयः-तदालोकपथात् प्रतिसंहतचक्षुषः सर्वे जनाः फलिताः शालयः इव अवाङ्मुखाः तस्थुः ।
व्याख्या-तस्याः =सीतायाः आलोकः = दर्शनं, तस्य पन्थाः =मार्गः इति तदालोकपथस्तस्मात् तदालोकपथात् , सीताकर्मकदर्शनमार्गादित्यर्थः प्रतिसंहृतानि =निवर्तितानि चक्षंषि = नेत्राणि यैस्ते प्रतिसंहृतचक्षुषः सर्वे = अखिलाः जनाः = अयोध्यावासिनो नराः फलानि संजातानि येषु ते फलिताः = फलयुक्ताः शाङ्यन्ते = आप्लाव्यन्ते इति शालयः = कलमाद्याः इव = यथा अवाञ्चति= अधोमुखो भवतीति अवाङ्-अधः मुखानि = आननानि येषां ते अवाङ्मुखाः शालयः फलेनाधोमुखाः, अयोध्यावासिनस्तु लज्जया अधोमुखाः सन्तः तस्थुः = स्थिताः।
समासः-तस्याः आलोकस्तदालोकः, तदालोकस्य पन्था स्तस्मात् तदालोकपथात् । प्रतिसंहृतानि चढूंषि यैरते प्रतिसंहृतचक्षुषः । अवाङ् मुखं येषां ते अवाङ्मुखाः।
हिन्दी-सीता जी के दीखने के मार्ग से दृष्टि ( आँखों ) को हटाकर सारे अयोध्यावासी जन उसी प्रकार नीचे मुख किये खड़े रहे। जैसे पके हुए धान झुक जाते हैं। अर्थात् इन सती साध्वी पर हमने झूठा कलंक लगाया था, इस लज्जा के मारे गर्दन न उठा सके ॥ ७८ ॥
तां दृष्टिविषये भतुर्मुनिरास्थितविष्टरः।
कुरु निःसंशयं वत्से स्ववृत्ते लोकमित्यशात् ॥ ७९ ॥ आस्थितविष्टरोऽधिष्ठितासनो मुनिः। हे वत्से, भर्तुर्दृष्टिविषये समक्षं स्ववृत्ते स्वचरिते विषये लोकं निःसंशयं कुरु । इति तां सीतामशाच्छास्ति स्म ।
अन्वयः-आरिथतविष्टरः मुनिः हे वत्से ! भर्तुः दृष्टिविषये स्ववृत्ते लोकं निःसंशयं कुरु इति ताम् अशात् । ___व्याख्या विस्तीर्यते इति विष्टरः। आस्थितः = अधिष्ठितः, स्वीकृत इत्यर्थः विष्टरः = आसनं येन सः आरिथतविष्टरः “विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्" इत्यमरः । मुनिः = वाल्मीकिः हे वत्से= हे पुत्रि ! बिभति इति भर्ता तस्य भर्तुः = पत्युः दृष्टेः = नेत्रस्य विषयः = गोचरः, तस्मिन् दृष्टिविषये = समक्षं स्वस्य = आत्मनः वृत्तं = चरित्रं तस्मिन् स्ववृत्ते = स्वकीयचरित्रविषये इत्यर्थः । लोकं = पुरजनं निष्क्रान्तः संशयः = सन्देहः भ्रान्तिः यस्य स तं निःसंशयं वु.रु = विधेहि । इति = एवं तां = सीताम् अशात् = शास्तिस्म ।
समासः-अरिथतः विष्टरो येन सः आस्थितविष्टरः । निर्गतः संशयो यस्य स तं निःसंशयम् । दृष्टः विषयः दृष्टिविषयरतरिमन् दृष्टिविषये। स्वस्य वृत्तं तस्मिन् स्ववृत्ते ।
हिन्दी-आसन पर बैठे हुए मुनि वाल्मीकि जी ने सीता को आज्ञा दी कि हे पुत्री ! पति के सामने, अपने चरित्र ( सतीत्व ) के विषय में अयोध्या के लोगों को सन्देह रहित कर दो। अर्थात तुम्हारे चरित्र के विषय में लोगों के मन में बैठे झठे सन्देह को मिटा दो ॥ ७९ ॥