________________
पञ्चदशः सर्गः
२९५
स्वरसंस्कारौ, तौ अस्तः अस्याः सा स्वरसंस्कारवती, तया स्वर संस्कारवत्या ऋच्यन्ते = स्तूयन्ते देवाः अनया सा ऋक् तया ऋचा =सावित्र्या ऋग्वेदमंत्रणेत्यर्थः । उद्गता अचिः = ज्योतिः, प्रकाशः यस्मात् स तम् उदचिषं सूर्य=दिवाकरम् इव = यथा पुत्राभ्यां = सुताभ्यामुप. लक्षितया सीतया = जानक्या करणेन उदचिषं =स्त्रदीप्त्याप्रकाशमानं रामम् = राबवं राजानम् असौ मुनिः = महर्षिः वाल्मीकिः उपस्थितः = सदसि समागतः ।
समासः-स्वरश्च संस्कारश्चेति स्वरसंस्कारो, तो अस्तः अस्याः सा तया स्वरसंस्कारवत्या । उद्गता अचिः यस्मात् सः उदचिस्तम् उदचिषम् ।
हिन्दी-महर्षि वाल्मीकि, अपने दोनों पुत्रों से युक्त सीता जी को साथ लेकर तेज से प्रकाशन राम के सामने उपस्थित हुए। लव कुश के साथ राम के पास जाती हुई सीता जी ऐसी प्रतीत हो रही थीं मानों उदात्तादि स्वर तथा व्याकरण के संस्कार से युक्त गायत्री, चमचमाते सूर्य के पास जा रही हो ॥ ७६ ॥
काषायपरिवीतेन स्वपदार्पितचक्षुषा।
अन्वमीयत शुद्धति शान्तेन वपुषव सा ॥ ७७ ॥ कषायेण रक्तं काषायम् । 'तेन रक्तं रागात्' इत्यण् । तेन परिवीतेन संवृतेन स्वपदापितचक्षुषा शान्तेन प्रसन्नेन वपुषैव सा सीता शुद्धा साध्वीत्यन्वमीयतानुमिता ॥ ___ अन्वयः-काषायपरिवीतेन स्वपदार्पितचक्षुषा शान्तेन वपुषा एव सा शुद्धा इति अन्वमीयत।
व्याख्या--कषायेन रागवस्तुना रक्तमिति काषायम् , काषायेन = ईषद्रक्तेन परिवीतं = संवोतम् , आच्छादितमित्यर्थः, यत्तेन काषायपरिवीतेन । स्वस्य = सीतायाः पदौ = चरणौ, इति स्वपदौ, स्वपदयोः अपिते = स्थापिते चक्षुषो = नेत्रे येन तत्तेन स्वपदार्पितचक्षुषा शान्तेन = प्रसन्नेन वपुषा = शरीरेण एव = निश्चये सा=सीता शुद्धा = पवित्रा, साध्वी, इति अन्वमीयत = अनुमिता । गत्यादि चेष्टयैव ज्ञाता इयं सतीतिभावः।
समासः-काषायेन परिवीतं तेन कषायपरिवीतेन । स्वस्यपदौ स्वपदौ, स्वपदयोः अपिते चक्षुषी येन तत्तेन स्वपदार्पितचक्षुषा।
हिन्दी-लालरंग का या गेरुवा वस्त्र पहने तथा अपने पैरों पर दृष्टि डाले हुए, ऐसे शान्त प्रसन्न, अपने शरीर से ही सीता जी सती साध्वी जान पड़ती थों। अर्थात् चेष्टा से हो सती दीख रही थीं ॥ ७७ ॥
जनास्तदालोकपथात्प्रतिसंहृत चक्षुषः।
तस्थुस्तेऽवाङमुखाः सर्वे फलिता इव शालयः ॥ ७ ॥ तस्याः सीतायाः कर्मण आलोकपथादर्शनमार्गात्पतिसंहृतचक्षुषो विवर्तितदृष्टयः सर्वे जनाः । फलिताः शालय इव । अवाङ्मुखा अवनतमुखास्तस्थुः ॥