________________
२९४
रघुवंशे आश्रमः। आसमन्तात् श्रमो यत्र स्वधर्मसाधनक्लेशाद्वा आश्रमस्तस्मात् आश्रमात् = तपोवनात् जनकस्य राशोऽपत्यं पुत्री जानकी तां जानकी = सीतां । स्वस्य सिद्धिः स्वसिद्धिः तां स्वसिद्धिं = स्वार्थसिद्धिम् नियमः =तपोभिः इव = यथा आनयामास =आह्वयामास । शिष्यन्ते इति शिष्यास्तैः शिष्यैः=छात्रैः।
समासः-स्वस्य सिद्धिः स्वसिद्धि स्तां स्वसिद्धिम् । हिन्दी-इस प्रकार राजा राम के स्वीकार कर लेने पर वाल्मीकि मुनि ने अपने शिष्यों को भेजकर आश्रम से सीता जी को इस प्रकार बुलवाया, मानों अपने यमनियमादि तपस्या के द्वारा अपनी सिद्धि को बुला रहे हों ॥ ७४ ॥
अन्येधुरथ काकुत्स्थः संनिपात्य पुरौकसः ।
कविमाह्वाययामास प्रस्तुतप्रतिपत्तये ॥ ७५ ॥ अथ काकुत्स्थो रामः । अन्येचुरन्यस्मिन्नहनि प्रस्तुतप्रतिपत्तये प्रकृतकार्यानुसंधानाय पुरौकसः पौरान्संनिपात्य मेलयित्वा, कविं वाल्मीकिमाह्वाययामासाकारयामास ॥
अन्वयः-अथ काकुत्स्थः अन्येद्युः प्रस्तुतप्रतिपत्तये पुरौकसः सन्निपात्य कविम् आह्वयामास ।
व्याख्या-अथ = अनन्तरम् ककुत्स्थस्यापत्यं पुमान् काकुत्स्थः रामः अन्यस्मिन् अहनि अन्येद्युः = अन्यदिने प्रस्तुतस्य = प्रकृतकार्यस्य प्रतिपत्तिः- प्रमाणानुसन्धानं, तस्यै प्रस्तुतप्रतिपत्तये पुरं = नगरम् ओकः = स्थानं येषां ते पुरौकसस्तान् पुरौकसः =नागरिकान् जनान् संनिपात्य--मेलयित्वा सर्वान्नेकत्रीकृत्येत्यर्थः। कविं = वाल्मीकि मुनिम् आह्वयामास = आकारयामास ।
समासः-पुरम् ओकः येषां ते पुरौकसस्तान् पुरौकसः। प्रस्तुतस्य प्रतिपत्तिः प्रस्तुतप्रतिपत्तिः तस्यै प्रस्तुतप्रतिपत्तये।
हिन्दी-इसके बाद दूसरे दिन राम ने इस प्रकृत कार्य में ( सोता के संबंध में किंवदन्ती को झूठी सिद्ध करने में ) प्रमाण जानने के लिये अयोध्यावासी प्रजाजनों को इकट्ठा करके वाल्मीकि जी को बुलवाया ॥ ७५ ॥
स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया।।
ऋचेवोदर्चिषं सूर्य रामं मुनिरुपस्थितः ॥ ७६ ॥ अथ । स्वर उदात्तादिः। संस्कारः शब्दशुद्धिः तद्वत्या ऋचा सावित्र्योदर्चिषं सूर्यमिव पुत्राभ्यामुपलक्षितया सीतया करणेनोदचिंषं राममसौ मुनिरुपस्थित उपतस्थे ।
अन्वयः-अथ स्वरसंस्कारवत्या ऋचा उदचिषं सूर्यम् इव पुत्राभ्याम् उपलक्षितया सीतया उदचिंषं रामम् असौ मुनिः उपस्थितः ।
व्याख्या-अथ =अनन्तरम् स्वरः= उदात्तादिश्च संस्कारः = व्याकरणशुद्धिश्च इति