________________
पञ्चदशः सर्गः
समासः-अक्ष्णोः समीपम् समक्षम् , अव्ययीभावः । जातं वेदोयस्मात् स जातवेदास्तस्मिन् जातवेदसि।
हिन्दी-"श्रीराम जी कहते हैं।" हे पूज्य ! आप की पुत्रवधू सीता हमारी आँखों के सामने अग्नि में पवित्र निकली थी। रावण की दुष्टता से ( जो वह उठाकर ले गया था ) यहाँ की प्रजा अग्निपरीक्षा की शुद्धि का विश्वास नहीं करती ॥ ७२ ॥
ताः स्वचारित्रमुद्दिश्य प्रत्याययतु मैथिली ।
ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया ।। ७३ ।। मैथिली स्वचारित्रमुद्दिश्य ताः प्रजाः प्रत्याययतु विश्वासयतु । विश्वासस्य बुद्धिरूपत्वात् । ‘णौ गमिरबोधने' इति इणो गम्यादेशो नास्ति । ततोऽनन्तरं पुत्रवतीमेनां सीतां त्वदाशया प्रतिपत्स्ये स्वीकरिष्ये ॥
अन्वयः-मैथिली स्वचारित्रम् उद्दिश्य ताः प्रत्याययतु ततः पुत्रवतीम् एनां त्वदाशय । प्रतिपत्स्ये।
व्याख्या-मैथिलस्य राज्ञोऽपत्यं पुत्री मैथिली =सीता चरित्रमेव चारित्रम्। स्वस्य = निजस्य चारित्रं = पातिव्रात्यं = सतीत्वमित्यर्थः। इति स्वचारित्रं तत् उद्दिश्य = उल्लक्ष्य ताः= अत्रत्याः प्रजाः प्रत्याययतु विश्वासयतु, विश्वासमुत्पादयत्वित्यर्थः। ततः = अनन्तरम् पुत्रौ विद्यते यस्याः सा पुत्रवती तां पुत्रवतीम् = ससुताम् एनां = मैथिली तव =भवतो वाल्मीके: आज्ञा = आदेशस्तयात्वदाज्ञया प्रतिपत्स्ये स्वीकरिष्ये।
समासः-स्वस्य चारित्रमिति स्वचारित्रं तत् स्वचारित्रम् । तव आशा त्वदाज्ञा तया त्वदाया।
हिन्दी-अतः मिथिलेश कुमारी सीता अपने चरित्र (चालचलन, सतीत्व ) की शुद्धता को प्रमाणित कर यहाँ की प्रजा को विश्वास दिलावें। तब मैं आपकी आज्ञा से पुत्रों सहित इन्हें स्वीकार कर लूँगा ॥ ७३ ॥
इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः ।
शिष्यैरानाययामास स्वसिद्धिं नियमैरिव ॥ ७४ ॥ राशेति प्रतिश्रुते प्रतिज्ञाते सति मुनिराश्रमाज्जानकी शिष्यैः प्रयोज्यैः स्वसिद्धिं स्वार्थसिद्धिं नियमैस्तपोभिरिव । आनाययामास ॥
अन्वयः-राज्ञा इति प्रतिश्रुते सति, मुनिः आश्रमात् जानकी शिष्यैः स्वसिद्धिम् नियमैः इव आनयामास।
व्याख्या-राज्ञा =रामचन्द्रेण इति = पूर्वोक्तप्रकारेण प्रतिश्रुते = स्वीकृते सति प्रतिशाते सतीत्यर्थः। मन्ता= वेदशास्त्रार्थतत्त्वावगन्ता मुनिः= वाल्मीकिः आश्राम्यन्ति अत्र, अनेन वा