________________
२९२
रघुवंशे स तावाख्याय रामाय मैथिलेयौ तदात्मजौ।
कविः कारुणिको ववे सीतायाः संपरिग्रहम् ॥ ७१ ॥ करुणा प्रयोजनमस्य कारुणिको दयालुः । 'प्रयोजनम्' इति ठञ् । 'स्याद्दयालु: कारुणिकः' इत्यमरः । स कवी रामाय तो मैथिलेयौ तदात्मजौ रामसुतावाख्याय सीतायाः संपरिग्रहं स्वीकारं वज्र ययाचे ॥
अन्वयः-कारुणिकः सः कविः, रामाय तौ मैथिलेयौ तदात्मजौ आख्याय सीतायाः सम्परिग्रहं वने ।
व्याख्या-करुणा शीलमस्य इति कारुणिकः = दयालु: "शीलम् ४-४-६१” इति ठक् मल्लिनाथमहोदयेन तु प्रयोजने ठञ् कृतः किन्तु, शीले यश्चमत्कार स्तन्न प्रयोजने भासते । "स्याद्दयालुः कारुणिकः" इत्यमरः । सः कविः= वाल्मीकिः रामाय = राघवेन्द्राय तौ = कुमारी मैथिल्याः अपत्ये पुमांसौ मैथिलेयी = सीतापुत्रौ तस्य = रामस्य आत्मजौ-सुती, इति तदात्मजौ= रामसुतौ आख्याय = कथयित्वा सीतायाः=जानक्याः सम्यक् परिग्रहः सम्परिग्रहस्तं सम्परिग्रहं = स्वीकारं वd=याचितवान् ।
समासः-तस्य आत्मजौ इति तदात्मजौ तौ । सम्यक् परिग्रहः सम्परिग्रहस्तं सम्परिग्रहम् ।
हिन्दी-परम दयालु आदि कवि वाल्मीकि मुनि ने, राम से वे दोनों कुमार सीता के गर्भ से उत्पन्न राम के पुत्र हैं कहकर, सीता के स्वीकार की याचना की। अर्थात् ये दोनों आपके आत्मज हैं अब आप सीता को स्वीकार करें ॥ ७१ ॥
तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।
दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः ॥ ७२ ॥ हे तात, ते स्नुषा सीता नोऽस्माकमक्षणोः समीपं समक्षम् । 'अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्तष्टच् । जातवेदसि वह्नौ शुद्धा । नास्माकमविश्वास इत्यर्थः। किंतु रक्षसो रावणस्य दौरात्म्यादत्रत्याः प्रजास्तां न श्रद्दधुने विशश्वसुः ।।
अन्वयः-हे तात ! ते स्नुषा नः समक्षं जातवेदसि शुद्धा "किन्तु" रक्षसः दौरात्म्यात् अत्रत्याः प्रजाः न श्रद्धधुः।
व्याख्या-तनोति = विस्तारयति कुलमिति तातः, तत्संबुद्धौ हे तात ! = हे पूज्य ! ते = तव, वाल्मोकेः स्नौति, इति स्नुषा = पुत्रवधूः, नः=अस्माकम् अक्ष्णोः समीपमिति समक्षं = सन्निधौ जातं वेदः= धनं यस्मात् सः, जातवेदाः तस्मिन् जातवेदसि = अग्नौ शुद्धा पवित्रा, अकलङ्का, इत्यर्थः । नात्रास्माकं किंचिदविश्वासलेशोऽपीत्यर्थः। तु= किन्तु रक्षसः रावणस्य दुष्टः आत्मा यस्य स दुरात्मा, दुरात्मनो भावः कर्म वा दौरात्म्यं तस्मात् दौरात्म्यात् = दुर्भावनया अत्र= अयोध्यायां भवाः अत्रत्याः प्रजाः जनाः तां = शुद्धिं न श्रद्दधुः = विशश्वसुः, लोकाः न विश्वसन्ति, अस्माकं तु पूर्णविश्वासः एवास्तीति भावः।