________________
२९१
पञ्चदशः सर्गः गेये को नु विनेता वां कस्य चेयं कृतिः कवेः ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम् ॥ ६९ ॥ गेये गीते को नु वां युवयोर्विनेता शिक्षकः। नुशब्दः प्रश्ने । 'नु पृच्छायां वितकें च' इत्यमरः । श्यं च कस्य कवेः कृतिरिति राज्ञा स्वयं पृष्टौ तौ कुशलवौ वाल्मीकिमशंसतामुक्तवन्तौ । विनेतारं कवि चेत्यर्थः। 'गेये केन विनीतौ वाम्' इति पाठे वामिति युष्मदर्थप्रतिपादकमव्ययं द्रष्टव्यम् । तथा चायमर्थः–केन पुंसा वां युवां गेये गीतविषये विनीतौ शिक्षितौ। कर्मणि निष्ठाप्रत्ययः ॥
अन्वयः-गेये कः नु वां विनेता इयं च कस्य कवेः कृतिः इति राशा स्वयं पृष्टौ तौ वाल्मीकिम् अशंसताम्।
व्याख्या-गातुं योग्यं गेयं तस्मिन् गेये=गाने कः जनः नु=इति प्रश्ने वां = युवयोः विनेता= शिक्षकः, “अस्ति" "नु प्रश्ने पृच्छायां वितकें च" इत्यमरः। इयं = युष्मद्भ्यां गीता कस्य कवते, कौति वा कबिस्तस्य कवेः= कवयितुः कृतिः रचना "विद्यते” इति = एवं राज्ञा= रामेण स्वयम् = आत्मना पृष्टौ तौ = कुशलवौ वाल्मीकि प्राचेतसं मुनिम् अशंसताम् = अकथयताम् । वाल्मीकि मुनिः आवां शिक्षक इति कथितवन्तावित्यर्थः।
हिन्दी-राजा राम ने स्वयं उनसे पूछा कि गाने में कौन तुम्हारे शिक्षक हैं। तथा यह किस कवि की रचचा है। इस प्रकार पूछे जाने पर उन्होंने वाल्मीकि मुनि को शिक्षक गुरु बताया ॥ ६९॥
अथ सावरजो रामः प्राचेतसमुपेयिवान् ।
ऊरीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत् ॥ ७० ॥ अथ सावरजो रामः प्राचेतसं वाल्मीकिमुपेयिवान्प्राप्तः सन् । देहमात्मानं ऊरीकृत्य । आत्मानं स्थापयित्वेत्यर्थः । आत्मनः राज्यमस्मै प्राचेतसाय न्यवेदयत्समर्पितवान् ॥
अन्वयः-अथ सावरजः रामः प्राचेतसम् उपेयीवान् सन् देहम् ऊरीकृत्य, आत्मनः राज्यम् अस्मै न्यवेदयत् ।
व्याख्या-अथ = अनन्तरम् अवरस्मिन् काले जाताः अवरजाः। अवरजैः= अनुजैः भरतादिभिः सहितः सावरजः रामः रामचन्द्रः प्रचेतसः गोत्रापत्यं पुमान् प्राचेतस स्तं प्राचेतसं = वाल्मीकिम् उपेयोवान् =प्राप्तः सन् देहम् = आत्मानम् ऊरीकृत्य = स्वीकृत्य स्पं स्थापयित्वेत्यर्थः। आत्मनः स्वस्य राज्यं =राष्ट्रम् अस्मै = प्राचेतसाय, मुनये वाल्मीकये इत्यर्थः । न्यवेदयत् =अर्पयत् । आत्मानं परिवर्त्य सर्व राज्यं मुनये समर्पितवानित्यर्थः ।
समासः-अवरजैः सहितः सावरजः। हिन्दो-इसके पश्चात् अपने छोटे भाइयों के साथ रामजी ने वाल्मीकि मुनि के पास पहुँच कर अपने को छोड़ कर अपना सारा राज्य मुनि को समर्पण कर दिया ॥ ७० ॥