________________
३०६
रघुवंशे
त्रिपात् धरति विश्वमिति धर्मः = सुकृतं, पुण्यमित्यर्थः इव = यथा शिथिलं = दुर्बलमित्यर्थः तस्थौ = स्थितः । खो हि शिथिलं तिष्ठति । “पादो बुध्ने तुरीयांशे शैलप्रत्यन्तपर्वते । चरणे च" इति मेदिनी।
समासः-आत्मनः चतुर्थः भागः इति आत्मचतुर्भागस्तस्मिन् आत्मचतुर्भागे। न अकं यत्र तत् नाकम् । त्रयो पादाः यस्य स त्रिपात् ।
हिन्दी-अपने चतुर्थांश ( चौथा भाग, चार भुजाओं में एक भुजा ) लक्ष्मण के स्वर्ग में चले जाने पर श्रीराम जी उसी प्रकार शिथिल (ठण्डे कमजोर ) पड़ गये। जैसे पृथिवी पर तीन पैर वाला ( त्रेता युग में ) धर्म शिथिल हो जाता है ॥ ९६ ॥
स निवेश्य कुशावत्यां रिपुनागाङ्कुश कुशम् । शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ॥ ९७ ॥ उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः ।
अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया ॥ ९८ ॥ युग्मम् । स्थिरधीः स रामः। रिपव एव नागा गजास्तेषामङ्कशं निवारकं कुशं कुशावत्यां पुर्या निवेश्य स्थापयित्वा। सूक्तः समोचीनवचनैः सतां जनिता अश्रुलवा अश्रुलेशा येन तं लवं लवाख्यं पुत्रम् । 'लवो लेशे विलासे च छेदने रामनन्दने' इति विश्वः। शरावत्यां पुर्याम् । 'शरादीनां च' इति शरकुशशब्दयोर्दीर्घः। निवेश्य । सानुजोऽग्निपुरःसरः सन् । पत्यौ भर्तरि वात्सल्यादनुरागात् । गृहान्वर्जयित्वा गृहवर्जम् । 'द्वितीयायां च' इति णमुल् । अयं क्वचिदपरीप्सायामपीष्यते । 'अनुदात्तं पदमेकवर्जम्' इत्येकाचः शेषतया व्याख्यातत्वात् । परीप्सा त्वरा। अयोध्ययान्वितोऽनुगत उदक्प्रतस्थे ॥
अन्वयः-स्थिरधीः सः रिपुनागांकुशं कुशं कुशावत्यां निवेश्य, सूक्तैः सतां जनिताश्रुलवं लवं शरावत्यां निवेश्य, सानुजः अग्निपुरःसर सन् पतिवात्सल्यात् गृहवर्जम् अयोध्यया अन्वितः उदक् प्रतस्थे । युग्मम् ।
व्याख्या-रिथरा = निश्चला धीः = बुद्धिः यस्य स स्थिरधीः सः = रामः नगे = पर्वते भवाः नागाः। रिपवः = शत्रवः एव नागाः = हस्तिनः इति रिपुनागाः, रिपुनागानाम् अंकुशः = सृणिः, निवारकमित्यर्थः । तं रिपुनागांकुशम् कुशं= कुशनामानं पुत्रं कुशाः सन्ति अस्यां सा कुशावती तस्यां कुशावत्यां = नग- निवेश्य =संस्थाप्य, सु= सुन्दराणि उक्तानि = वचनानि तैः मुक्तः = मधुरवचोभिः सतां = सज्जनानां जनिताः= उत्पादिताः अश्रूणां = नेत्रजलानां लवाः= कणाः विन्दवः येन स जनिताश्रुलवस्तं जनिताश्रुलवं लवं = लवनामकं कनिष्ठपुत्रं शराः = तृणविशेषाः सन्त्यस्यां सा शरावती तस्यां शरावत्यां पुर्यां च निवेश्य, अनुजैः = भरतादिभिः सहितः सानुजः अग्निः = वह्निः गार्हस्पत्याग्निरित्यर्थः । पुरःसरः = अग्रगामी यस्य सः अग्निपुरःसरः सन् पत्यौ = भर्तरि रामे यत् वात्सल्यम् = अनुरागरतस्मात् पतिवात्सल्यात् गृहान् = वेश्मानि वर्ज