________________
रघुवंशे
रघुनाथोऽपि मार्गसंदर्शितात्मना महौजसाऽगस्त्येन । इन्दुना शरत्काल इव । संयुयुजे संगतः। इन्दावपि विशेषणं योज्यम् । रघुनाथेत्यत्र क्षुभ्रादित्वाण्णत्वाभावः ॥
२८२
अन्वयः - रघुनाथः अपि मार्गसन्दर्शितात्मना महौजसा अगस्त्येन, मार्गसन्दर्शितात्मना इन्दुना शरत्कालः इव संयुयुजे ।
व्याख्या -- रघूणां = रघुवंशीयानां नाथः = स्वामी इति रघुनाथः = रामचन्द्रः अपि मार्गे = पथि सन्दर्शितः = प्रकटितः = दृष्टो वा आत्मा = स्वरूपं यस्य स तेन मार्गसन्दर्शितात्मना महत् = प्रचुरम् ओजः-- तेजः यस्य स तेन महौजसा अगं = विन्ध्यपर्वतं स्त्यायति = स्तभ्नोति, इति अगस्त्यस्तेन अगस्त्येन = कुम्भसम्भवेन मुनिना “ अगस्त्यः कुम्भसंभव:" इत्यमरः । मार्ग - सन्दर्शितात्मना, इन्दुना = चन्द्रेण शरदः = शरदृतोः कालः समयः इति शरत्कालः इव = यथा संयुयुजे = संगतः, मिलितः इत्यर्थः । प्रत्यावर्तनकाले मार्गस्थिताश्रमे अगस्त्यमुनिना संगतः इत्यर्थः ।
समासः - रघूणां नाथ रघुनाथः । मार्गे सन्दर्शितः आत्मा यस्य येन बा मार्ग सन्दर्शितात्मा, तेन मार्गसन्दर्शितात्मना । महत् ओजो यस्य स तेन महौजसा । शरदः कालः शरत्कालः ।
हिन्दी - और इधर रघुनाथ श्रीराम भी मार्ग में दीखे महा तेजस्वी अगस्त्य मुनि से उसी प्रकार मिले, जैसे मार्ग में आए हुए चन्द्रमा से शरद् ऋतु मिलता है ॥ ५४ ॥
कुम्भयो निरलंकारं तस्म दिव्यपरिग्रहम् ।
ददौ दत्त समुद्रेण पीतेनेवात्मनिष्क्रयम् ॥ ५५ ॥
कुम्भयोनिरगस्त्यः पीतेन समुद्रेणात्मनिष्क्रयमिवात्ममोचनमूल्यमिव दत्तम् । अत एव परिगृह्यत इति व्युत्पत्त्या दिव्यपरिग्रहः । दिव्यानां परिग्राह्य इत्यर्थः । तमलंकारं तस्मै रामाय ददौ ॥ श्रन्वयः - कुम्भयोनिः पीतेन समुद्रेण आत्मनिष्क्रयम् इव दत्तम् " अतएव " दिव्यपरिग्रहम् अलंकारं तस्मै ददौ ।
=
व्याख्या—कुम्भः = कलश: योनिः = उत्पत्तिस्थानमस्य स कुम्भयोनिः = अगस्त्यः पीतेन : पानविषयीकृतेन समोचीनाः उद्राः = जलचर विशेषाः यस्मिन् सः, सह मुद्रया = मर्यादया वर्तते इति वा समुद्रः = सागरः तेन समुद्रेण आत्मनः = स्वस्य निष्क्रयम् = भोचनमूल्यमिति आत्मनिष्क्रयम् इत्र = यथा दत्तं = प्रदत्तम्, अत एव परिगृह्यते इति परिग्रहः । दिव्यानां = स्वर्गीयाणां = देवानां परिग्रहः = धारणयोग्य स्तं दिव्यपरिग्रहम् अलंक्रियतेऽनेन सः अलंकारस्तम् अलंकारम् = आभरणं तस्मै = रामाय ददौ = दत्तवान् ।
समासः - कुम्भः योनि ः यस्य स कुम्भयोनिः । दिव्यानां परिग्रहः दिव्यपरिग्रह स्तं दिव्यपरिग्रहम् । आत्मनः निष्क्रयः आत्मनिष्क्रयस्तम् आत्मनिष्क्रयम् ।
हिन्दी- - अगस्त्य मुनि ने देवताओं के धारण करने योग्य वे सुन्दर आभूषण ( जेवर )
"