________________
पञ्चदशः सर्गः
२८१
व्याख्या-सः रामः ज्योतिषः = अग्नेः कणाः = स्फुलिंगाः इति ज्योतिष्कणा स्तैः आहतानि= दग्धानि श्मश्रुणि = पुंमुखरोमाणि यस्य तत् ज्योतिष्कणाहतश्मश्रु तस्य शम्बुकरय वक्त्रं = मुखमिति तवक्त्रम् हिमेन -- तुपारेण क्लिष्टानि = क्लिशितानि किचल्कानि= केसराणि यस्य तत् हिमक्लिष्टकिजल्कम् । “किंजल्कः केसरोऽस्त्रियाम्" इत्यमरः । पंकात् जातं पङ्कजं तत्,= कमलम् इव = यथा कण्ठः = गलः एव नालं = पद्मदण्डः इति कण्ठनालं तस्मात् कण्ठनालात् अपातयत् = पातयामास, अच्छिनत् ।
समासः-ज्योतिषः कणाः ज्योतिष्कणाः, ज्योतिष्कणैः आहतानि श्मश्रूणि यस्य तत् ज्योतिष्कणाहतश्मथ तत् । तस्य वक्त्रं तद्वक्त्रं तत् । हिमेन क्लिष्टाः किंजल्काः यस्य तत् हिमहतकिंजल्कं तत् । कण्ठ एव नालं तस्मात् कण्ठनालात् ।
हिन्दी-और श्री राम ने अग्नि की चिनगारियों से झुलसी दाढ़ी वाले उस शम्बुक के शिर को, उस कमल की तरह कण्ठ रूपी नाल से ( गले से ) काटकर गिरा दिया। पाले से जिसकी केसर जल गई हो और कमलनाल से अलग कर दिया हो ॥ ५२ ॥
कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् ।
तपसा दुश्चरेणापि न स्वमार्गविलचिना ॥ ५३ ॥ शूद्रः शम्बुको राशा स्वयं कृतदण्डः कृतशिक्षः सन्। सतां गतिं लेभे। दुश्चरेणापि स्वमार्गविलचिना । अनधिकारदुष्टेनेत्यर्थः। तपसा न लेभे। अत्र मनुः–'राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥' इति ॥
अन्वयः-शूद्रः राज्ञा स्वयं कृतदण्डः सन् सतां गतिं लेभे दुश्चरेण अपि स्वमार्गलंधिना सपसा न लेभे।
व्याख्या-शूद्रः= वृषलः, शम्बुकः राज्ञा = रामेण स्वयं = स्वहस्तेन कृतः = विहितः, दत्त इत्यर्थः । दण्डः = वधः यस्य स कृतदण्डः सन् सतां = सज्जनानां गतिं सद्गति, स्वर्गमित्यर्थः । लेमे = प्राप, दुश्चरेण = अतिकठोरेण अपि स्वस्य मार्गः स्वमार्गः । स्वमार्ग लंघते तच्छीलः स्वमार्गलंघी, तेन स्त्रमार्गलविना = अनधिकार दूषितेनेत्यर्थः तपसा = तपस्यया न लेभे ।
समासः कृतः दण्ड: यरय स कृतदण्डः । स्वस्य मार्गः स्वमार्गः। स्वमार्गस्य लंधी, स्त्र. मार्गलंघी तेन स्वमार्गलंपिना।
हिन्दी-स्वयं राजा राम से दण्डित होकर ( वधरूप दण्ड पाकर ) वह शूद्र सद्गति को प्राप्त हुआ। जो वह अपने वर्ण धर्म का उल्लंघन कर घोर तप से भी नहीं प्राप्त कर सकता था ॥ ५३ ॥
रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना । महौजसा संयुयुजे शरत्काल इवेन्दुना ॥ ५४ ॥