________________
२८०
रघुवंशे
1 व्याख्या-राशा रामचन्द्रेण नाम च अन्वयश्चेति नामान्वयौ, पृष्टौ = शीप्सितौ नामान्वयौ= नामवंशौ यस्य स पृष्टनामान्वयः । धूमं पिवति इति धूमपः=धूमपायी सः= पुरुषः आत्मानं =स्वं सुराणां = देवानां पदं = स्थानम् अर्थते = प्रार्थयतीति सुरपदाथों तं सुरपदाथिनं, स्वर्गाभिलाषिणं शम्बुकं नाम, शम्बुकनामानं शोचतीति शूद्र स्तं शूद्रं = वृषलम् , अन्त्यवर्ण मित्यर्थः। आचष्ट = आख्यातवान् किल = प्रसिद्धौ ।
समासः-नाम च अन्वश्चेति नामान्वयौ, पृष्टौ नामान्वयौ यस्य स पृष्टनामान्वयः। सुराणां पदं सुरपदं, सुरपदस्य अर्थी इति सुरपदार्थी तं सुरपदाथिनम् ।
हिन्दी-राजा राम ने जब उस पुरुष का नाम और कुल पूछा तो धूम पीने वाले उस पुरुष ने अपने को स्वर्ग प्राप्त करने की इच्छा वाला शम्बूक नामक शूद्र बताया ॥ ५० ॥
तपस्यनधिकारित्वात्प्रजानां तमघावहम् । शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे ॥ ५१ ॥
तपस्यनधिकारित्वात्प्रजानामघावहं दुःखावहं तं शूद्रं शीर्षच्छेद्यम् । 'शीर्षच्छेदाद्यच्च' इति यत्प्रत्ययः । परिच्छिद्य निश्चित्य नियन्ता रक्षको रामः शस्त्रमाददे जग्राह ॥
अन्वयः-तपसि अनधिकारित्वात् प्रजानाम् अघावहं तं शीर्षच्छेद्यं परिच्छिद्य, नियन्ता शस्त्रम् आददे।
व्याख्या-तपसि = तपश्चरणे न अधिकारी अधिकारवान्निति अनधिकारी, अनधिकारिणो भावः कर्म वा अनधिकारित्वं तस्मात् अनधिकारित्वात् , तपश्चरणानहत्वादित्यर्थः। प्रजानां = लोकानाम् अघ = दुःखम् आवहति, इति अघावहः= दुःखकरमित्यर्थः । तम् अघावहं तं= शूद्रं शीर्षस्य = शिरसः छेदं - कर्तनम् अर्हतीति शीर्षच्छेद्यस्तं शीर्षच्छेद्यं = वध्यं परिच्छिद्य = निश्चित्य “वध्यः शीर्षच्छेद्यः इमौ समौ” इत्यमरः । नियन्ता = प्रजारक्षकः रामः शस्त्रम् = आयुधम् आददे = गृहीतवान् । शूद्रवधाय खड्गं जग्राहेत्यर्थः।।
हिन्दी-तपस्या करने का अधिकारी न होने के कारण प्रजा में दुःख-पाप फैलाने वाले उस शूद्र को शिर काटने के योग्य निश्चय करके प्रजापालक राम ने अस्त्र उठा लिया ॥ ५१ ॥
स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् ।
ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत् ॥ ५२ ॥ स रामो ज्योतिष्कणैः स्फुलिङ्गैराहतानि दग्धानि श्मश्रूणि यस्य तत्तस्य वक्त्रम् । हिमक्लिष्टकिञ्जतकं पङ्कजमिव । कण्ठ एव नालं तस्मादपातयत् ॥
अन्वयः-सः ज्योतिष्कणाहतश्मश्रु तद्वक्त्रं हिमक्लिष्टकिजकम् पंकजम् इव कण्ठनालात् अपातयत्।