________________
पञ्चदशः सर्गः
२८३
राम जी को दिए। जो भूषण अगस्त्यमुनि को, पीकर छोड़े गये समुद्र ने अपने को छुड़ाने के बदले में दिये थे ॥ ५५ ॥
तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना।
पश्चानिववृते रामः प्राक्परासुर्द्विजात्मजः ॥ ५६ ॥ मैथिलीकण्ठनिक्पारेण बाहुना तमलंकारं दधद्रामः पश्चान्निववृते निवृत्तः। परासुम॒तो द्विजात्मजः प्राग्रामात्पूर्व निववृते ॥
अन्वयः--मैथिलीकण्ठनिर्व्यापारेण बाहुना तं दधन् रामः पश्चात् निववृते, परासुः द्विजात्मजःप्राक् नि ववृते।
व्याख्या-मैथिल्याः =जानक्याः कण्ठः= गलः, इति मैथिलीकण्ठः तस्मात् निर्गतः= रहितः, शून्यः व्यापारः= आलिंगनरूपः यस्य स तेन मैथिलीकण्ठनिर्व्यापारेण बाहुना= भुजेन तम् = अगस्त्यदत्तालंकारं दधन् = धारयन् रामः= राघवः पश्चात् निववृते = निवृत्तः, अयोध्या. मागत इत्यर्थः। परागताः= नष्टाः असवः = प्राणाः यस्य स परासुः= मृतः द्विजस्य = ब्राह्मणस्य आत्मजः = पुत्रः द्विजात्मजः प्राक् = पूर्व, रामागमनात्प्रथमम् निववृते = आगतः जीवितोऽभूदित्यर्थः।
समासः-मैथिल्याः कण्ठः मैथिलीकण्ठः, मैथिलीकण्ठात् निर्गतः व्यापारः यस्य स तेन मैथिलीकण्ठनिर्व्यापारेण । परागताः असवो यस्य स परासुः। द्विजस्य आत्मजः द्विजात्मजः ।
हिन्दी-“सीता जी के वन में चले जाने से" सीता जी के कण्ठ के आलिंगन से रहित, अपने बाहु ( हाथ ) में अगस्त्य जी के दिये उस अलंकार को पहिने हुए राम तो पीछे अयोध्या में लौटे। और मरा हुआ वह ब्राह्मण बालक उनसे पहले ही लौट आया। अर्थात् राम के आने से पहले ही जी उठा ॥ ५६ ॥
तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः ।
स्तुत्या निर्वतयामास त्रातुर्वैवस्वतादपि ॥ ५७ ॥ पुत्रसमागतः पुत्रेण संगतो द्विजो वैवस्वतादन्तकादपि त्रातू रक्षकस्य । 'भीत्रार्थानां भयहेतुः' इत्यपादानात्पञ्चमी । तस्य रामस्य पूर्वोदितां पूर्वोक्तां निन्दां स्तुत्या निवर्तयामास ॥
अन्वयः-पुत्रसमागतः द्विजः वैवस्वतात् अपि त्रातुः तस्य पूर्वोदितां निन्दां स्तुत्या निवर्तयामास । ... व्याख्या-पुत्रेण = आत्मजेन समागतः = संगतः, मिलितः इत्यर्थः इति पुत्रसमागतः द्विजः = ब्राह्मणः ( विवस्वतः पुत्रः वैवस्वतः तस्मात् वैवस्वतात् = यमात् अपि त्रायते इति त्राता तस्य त्रातुः रक्षकस्य तस्य = रामचन्द्रस्य ) पूर्व = प्रथमं पुत्रमरणकाले उदिता = कथिता तां पूर्वोदितां निन्दां= परीवादं स्तुत्या =स्तोत्रेण "स्तवः स्तोत्रं स्तुति र्नुतिः” इत्यमरः । निवर्तयामास = निवारयामास, प्रक्षालितवानित्यर्थः।