________________
चतुर्दशः सर्गः
२४५ समासः-दयया आई चेतो यस्य स दयार्द्रचेताः । अनुग्रहस्य प्रत्यभिनन्दिनी ताम् अनुग्रहप्रत्यभिनन्दिनीम् । वेदीनां पार्श्वमिति वेदिपार्श्वम् , मृगैः अध्यासितं वेदिपावं यस्मिन् स तं मृगाध्यासितवेदिपार्श्वम् । शान्ताः मृगाः यस्मिन् स शान्तमृगस्तं शान्तमृगम् ।
हिन्दी-मुनि की कृपा तथा उपकार की प्रशंसा ( सराहना ) करने वाली उस सीताजी को साथ लेकर परमकरुणामय वाल्मीकि ऋषि, अपने आश्रम में पहुँच गये । जहाँ कि शाम के समय मृग वेदी के आस-पास बैठे हैं। और मृग सिह आदि जीव भी शान्त चुपचाप बैठे हैं ॥ ७९ ॥
तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु ।
निर्विष्टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु ॥ ८ ॥ शोकदीनां तां सीतां तस्याः सीताया आगमेन प्रीतिर्यासां तासु तापसीषु । पितृभिरग्निष्वात्तादिभिनिविष्टप्तारां भुक्तसारां हिमांशोरन्त्यामवशिष्टां कलां दशोऽमावास्याकाल ओषधीष्विव । अर्पयामास च । अत्र पराशरः--'पिबन्ति विमलं सोमं विशिष्टा तस्य या कला। सुधामृतमयीं पुण्यां तामिन्दोः पितरो मुने ॥' इति । व्यासश्च–'अमायां तु सदा सोम ओषधीः प्रतिपद्यते' इति । ___ अन्वयः-शोकदीनां तां तदागमप्रीतिषु तापसीषु पितृभिः निविष्टसारां हिमांशोः अन्त्यां कलां दर्शः औषधिषु इव अर्पयामास।
व्याख्या-शोकेन = मन्युना दीना= विषण्णा, इति शोकदीना तां शोकदीनाम् तां = सीतां “मन्युशोकौ तु शुक् स्त्रियाम्" इत्यमरः। तस्याः =सीतायाः आगमः= प्राप्तिः, आगमनमित्यर्थः, इति तदागमस्तेन प्रीतिः = प्रसन्नता यासां ताः, तासु तदागमप्रीतिषु सीतागमनेन प्रसन्नास्वित्यर्थः। तापसीषु = तपस्विनीषु पितृभिः = परलोकगतैः अग्निष्वात्तादिभिः निविष्टः = भुक्तः सारः=सारभागः यस्याः सा तां निविष्टसारां हिमाः = शिशिराः अंशवः = किरणाः यस्य स तस्य हिमांशोः = चन्द्रस्य अन्ते भवा अन्त्या ताम् अन्त्याम् = अवशिष्टां कलां = षोडशांशभार्ग दर्शः = अमावस्याकालः ओषः = प्लोषः दीप्तिर्वा धीयन्ते यत्र औषधयः, तासु ओष. धीषु- वनस्पतिषु इव = यथा अर्पयामास = समर्पयामास ।
समासः = शोकेन दीना शोकदीना तां शोकदीनाम् । तस्याः आगमः तदागमः, तदागमेन प्रीतिः यासां ताः तासु तदागमप्रीतिषु । निर्विष्टः सारः यस्याः सा तां निर्विष्टसाराम् । हिमाः अंशवो यस्य स तस्य हिमांशोः ।
हिन्दी-"वाल्मीकि जी ने" शोक से व्याकुल सीता को, सीता के आगमन से प्रसन्न हुई तपस्विनियों के हाथ उसी प्रकार सौंप दिया जैसे अमावस्या काल जड़ी बूटी लता वृक्षों को चन्द्रमा की वह तत्त्वरहित अन्तिम कला सौंप देता है। जिस के सार भाग (अमृत) को पितर खींच लेते हैं । ८० ॥