________________
रघुवंशे
व्याख्या - स्वस्य = आत्मनः
बलं = सामर्थ्यं तस्य अनुरूपाः = सदृशाः तुल्यास्तैः स्वबलानुरूपैः पयसां = जलानां घटाः = कलशास्तैः पयोवटैः = जलपूर्ण कलशैरित्यर्थः । बालाः = हस्वाश्च ते वृक्षाः पादपाः इति बालवृक्षाः, आश्रमन्य = तापसवनस्य बालवृक्षाः इति आश्रमबालवृक्षास्तान् आश्रमबालवृक्षान् संवर्धयन्ती - पोषयन्ती त्वं = सीता तनयस्य = पुत्रस्य उपपत्तिः = उत्पत्तिः, जन्म इत्यर्थः, इति तनयोपपत्तिस्तस्याः तनयोपपत्तेः प्राक् = प्रथमम् न विद्यते संशयः = सन्देहो यस्मिन् तत् असंशयं यथा स्यात्तथा स्तनौ = कुचौ धयति = पिबतीति स्तनंधयः, स्तनन्धये = शिशौ या प्रीतिः = स्नेहस्तां स्तनन्धयप्रीतिम् अवाप्स्यसि = प्राप्स्यसि । पुत्रोत्पत्त्य - नन्तरं तु सुलभ एव ते विनोद इति भावः ।
२४४
समासः --- स्वस्य बलं स्वबलं, स्वबलस्य अनुरूपास्तैः स्वबलानुरूपैः । पयसां घटाः पयोघटास्तैः पयोघटैः । बालाश्च ते वृक्षाः, बालवृक्षाः आश्रमस्य बालवृक्षाः इति आश्रमबालवृक्षास्तान् आश्रमबालवृक्षान् । तनयस्य उत्तिस्तस्यास्तनयोपपत्तेः । स्तनन्धये प्रीति रति स्तनन्धयप्रीतिस्तां स्तनन्धयप्रीतिम् ।
हिन्दी-अपनी शक्ति के अनुसार ( जो तुम उठा सको ) जल से भरे घड़ों से आश्रम के छोटे-छोटे वृक्षों को तुम सींचो । इस प्रकार तुम पुत्र के उत्पन्न होने के पहले निश्चय ही, दुधमुहे बच्चों की प्रीति को प्राप्त कर लोगी ! अर्थात् दूध पीते बच्चों से प्यार करना सीख लोगी । और फिर तो तुम बच्चों में ही रम जाओगी ।। ७८ ।।
अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः ।
सायं मृगाध्यासितवेदिपाश्वं स्वमाश्रमं शान्तमृगं निनाय ॥ ७९ ॥ दयार्द्रचेता वाल्मीकिः । अनुग्रहं प्रत्यभिनन्दतीति तथोक्तां तां सीतामादाय सायं मृगैरध्यासितवेदिपार्श्वमधिष्ठितवेदिप्रान्तं शान्तमृगं स्वमाश्रमं निनाय ||
अन्वयः - दयार्द्रचेताः वाल्मीकिः अनुग्रहप्रत्यभिनन्दिनीं ताम् आदाय, सितवेदिपावं शान्तमृगं स्वम् आश्रमं निनाय ।
सायं मृगाध्या
व्याख्या—दयया = करुणया आर्द्र = क्लिन्नं चेतः = चित्तं यस्य स दयार्द्रचेताः वाल्मीकिः = मुनिः अनुग्रहणमनुग्रहः । अनुग्रहं = दयाम् उपकारं प्रत्यभिनन्दति = सहर्ष स्वीकरोति इति अनुग्रह प्रत्यभिनन्दिनी ताम् अनुग्रह प्रत्यभिनन्दिनीम् तां = सीताम् आदाय = गृहीत्वा सायं = सन्ध्याकाले, स्पृश्यते इति पार्श्व, पशूनां समूहः पार्श्वमिति वा । " पार्श्वमन्तिके" इति हैमः । मृगैः = हरिणैः अध्यासितम् = अधिष्ठितं वेदीनां = परिष्कृतभूमीनां यज्ञवेदीनामित्यर्थः । पार्श्वम् = प्रान्तभागः यस्मिन् स तं मृगाध्यासितवेदिपार्श्वम् । शान्ताः = नम्रीभूताः मृगाः = हरिणाः, सिंहादयश्च यत्र स तं शान्तमृगं स्वं स्वकीयम् आश्राम्यन्ति यत्र सः आश्रमः । आसमन्तात् श्रमो यत्र स्वधर्मसाधन क्लेशात् सः आश्रमस्तम् आश्रमं = तापसवनं निनाय नीतवान् ।
-