________________
चतुर्दशः सर्गः
२४३
हिन्दी-ऋषि मुनियों की पर्णशालाओं से सुशोभित ( भरे हुए ) तीरवाली तथा शोक व पापनाशनी मिटाने वाली तमसा नदी में स्नान करके फिर उसके रेतोले तट पर अपने इष्टदेव की पूजा करने से तुम्हारा मन प्रसन्न रहेगा ॥ ७६ ।।
पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि ।
विनोदयिष्यन्ति नवामिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम् ।। ७७ ॥ ऋतुरस्य प्राप्त आर्तवम् । स्वकालप्राप्तमित्यर्थः। पुष्पं फलं च । अकृष्टरोह्य कृष्टक्षेत्रोत्थम् । अकृष्टपच्यमित्यर्थः । वलये हितं डालेयं पूजायोग्यम् । 'छदिरूपधिबलेन्' इति ढप्रत्यः । बीजं नीवारादि धान्यं चाहरन्त्य उदारवायः प्रगल्भगिरो मुनिकन्यका नवाभिषङ्गां नूतनदुःखां त्वां विनोदयिष्यन्ति ।। __ अन्वयः-आर्तवं पुष्पं फलं च अकृष्टरोहि बालेयं बीजं च आहरन्त्यः, उदारवाचः मुनिकन्यकाः नवाभिषंगां त्वां विनोदयिष्यन्ति ।
व्याख्या-ऋतुरस्य प्राप्तः आर्तवं = ऋतुकालोद्भवं पुष्पं = कुसुमम् फलम् = आम्रसस्यादिकं च न कृष्टम् अकृष्टम् , अकृष्टे = असीत्ये रोहति = प्रादुर्भवति तच्छीलमिति अकृष्टरोहि = अकृष्टक्षत्रोत्पन्नं बलये हितं बालेयं :- पूजायोग्यं, बीजं = नीवारादि धान्यच आहरन्त्यः = आनयन्त्यः उदाराः = उत्कृष्टाः, प्रगल्भाः वाचः = वाण्यः यासा ताः उदारवाचः ह्रस्वाः कन्याः कन्यकाः, मुनीनां = तापसानां कन्यकाः = वालिकाः इति मुनिकन्यकाः नवः नूतनः, अभिघंगः =दुःखं मिथ्यापवादेन परित्यागरूप इत्यर्थः, यस्याः सा तां नवाभिषंगां त्वां सीता विनोदयिष्यन्ति =ते मनोरञ्जनं करिष्यन्ति ।
समासः-नवः अभिषंगः यस्याः सा तां नवाभिषणाम् । उदाराः वाचः यासां ता उदारवाचः । मुनीनां कन्यकाः मुनिकन्यकाः।
हिन्दी-ऋतु काल में उत्पन्न हुए फल फूल, तथा बिना जुते खेत में उत्पन्न, बलि पूजा के योग्य, जंगली चावल ले आने वाली, तथा खूब मीठी-मीठी बातें बनाने वाली, मुनियों की कन्या, नए दुःख वाली तुम्हारा मन बहलायेंगी। अर्थात् उन बच्चियों की मीठी बातें सुनकर तुम अपना दुःख भूल जाओगी ।। ७७ ।।
पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती स्वबलानुरूपैः ।
असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिमवाप्स्यसि त्वम् ॥ ७८ ॥ स्वबलानुरूपैः स्वशक्त्यनुसारिभिः पयसामम्भसां घटैः स्तन्यैरिति च ध्वन्यते आश्रमबालवृक्षान्संवर्धयन्ती त्वं तनयोपपत्तेः प्राथूर्वमसंशयं यथा तथा। रतन धयति पिबतीति स्तनंधयः शिशुः । 'नासिकास्तनयो धेटोः' इति खश्प्रत्ययः । 'अरुषित-' इत्यादिना मुमागमः । तस्मिन्या प्रीतिस्तागत्राप्स्यसि । ततः परं सुलभ एव विनोद इति भावः ।।
अन्वयः-स्वबलानुरूपैः पयोधटैः आश्रमबालवृक्षान् संवर्धयन्ती त्वं तनयोपपत्तेः प्राक् असंशयं “यथा स्यात्तथा" स्तनन्धयप्रीतिम् अवाप्स्यसि ।