________________
२४२
रघुवंशे
इत्यर्थः । वीतं नष्टं भयं =भीतिः यस्याः सा वीतभया = निर्भया सती वस = निवासं कुरु । इतः = अस्मिन्तपोवने नास्ति अवं यस्याः सा अनवा । अनघा= निष्पापा, अव्यसना च प्रसूतिः = सन्ततिः यस्याः सा तस्याः अनवप्रसूतेः ते =सीताया अपत्यस्य - शिशोः संस्कारः = जातकर्मादिः तन्मयः = तद्रूपः, इति अपत्यसंस्कारमयः विधानं विधिः == अनुष्ठानं भविष्यति = सम्पत्स्यते ।
समासः-तपस्विनां संसर्गः तपस्विसंसर्गः, तपस्विसंसर्गेण विनीताः सत्त्वाः यस्मिन् तत् , तस्मिन् तपस्त्रिसंसर्गविनीतसत्त्वे । तपसां वनं तपोवनं तस्मिन् तपोवने। वीतं भयं यस्याः सा वीतभया । न अधं यस्याः सा अनघा, अनवा प्रसूतिर्यस्याः तस्याः अनघप्रसूतेः । अपत्यस्य संस्कारः अपत्यसंस्कारः।
हिन्दी-तपस्वियों के साथ रहने से सीधे-साधे जीव-जन्तु वाले इस तपोवन में तुम निर्भय होकर निवास करो। सुखपूर्वक, निष्कलंक सन्तानवाली तुम्हारे पुत्र का जातकर्मादि संस्कार यहीं सब हो जायेगा ।। ७५ ।।
अशून्यतीरां मुनिसंनिवेशस्तमोपहन्त्री तमसा वगाह्य ।
तसैकतोत्सङ्गबलिक्रियामिः संपत्स्यते ते मनसः प्रसादः ।। ७६ । संनिविशन्ते येष्विति संनिवेशा उटजाः । अधिकरणार्थे घन्प्रत्ययः । मुनीनां संनिवेशरुटजैरजन्यतीरा पूर्णतीरां तमसः शोकस्य पापस्य वापहन्त्रीम् । 'तमस्तु क्लीवे पापे नरकशोकयोः' इति कोशः । तमसा नदीं वफाह्य तत्र स्नात्वा। बलिक्रियापेक्षया पूर्वकालता। तस्याः सैकतोत्सङ्गेषु गलिक्रियाभिरिष्टदेवतापूजाविधिभिस्ते मनसः प्रसादः संपत्स्यते भविष्यति ॥
अन्वयः-मुनिशनिवेशैः अशून्यतीरां तमोपहन्त्री तमसां वगाह्य, तत्सैकतोत्संगबलिक्रियाभिः ते मनसः प्रसादः सम्पत्स्यते।
व्याख्या-सन्निविसन्ते येषु ते सन्निवेशाः। मुनीनां = महर्षीणां सन्निवेशाः = पर्णशालाः तै: मुनिसंनिवेशैः न शून्यमिति अशून्यम् । अशून्यं = मुनिपूर्ण तीरं = तटं यस्याः सा ताम् अशून्यतीरां तमसः = शोकस्य, पापस्य च उपहन्त्री = विनाशनी तां तमोपहन्त्रीम् “तमो ध्वान्ते गुणे शोके क्लीबं वा" इति नेदिनी। तम इव जलमस्याः सा तमसा = एतन्नाम्नी नदी तां तमसां वगाह्य = अवगाह्य, तस्यां स्नात्वा, इत्यर्थः। सिकताः सन्ति येषु तानि सैकतानि । सैकतानि = वालकामयानिचयानि उत्संगानि = क्रोडानि इति सैकतोत्संगानि, तस्याः = तमसायाः सैकतोत्संगानि इति तत्सैकतोत्संगानि तेषु बलीनां = देवतोपहाराणां क्रियाः = अनुष्ठानानि ताभिः तत्सैकतोसंगबलिक्रियाभिः = स्वेष्टदेवपूजाभिरित्यर्थः ते = तव मनसः = चित्तस्य प्रसादः -- प्रसन्नता सम्पत्स्यते = भविष्यति । “प्रसादस्तु प्रसन्नता" इत्यमरः।
समासः-मुनीनां सन्निवेशाः मुनिसन्निवेशास्तैः मुनिसंनिवेशः। अशून्यं तीरं यस्याः सा ताम् अशून्यतीराम् । तमसः उपहन्त्री तां तमोपहन्त्रीम् । तस्याः सैकतानि यानि उत्संगानि इति तत्सैकतोत्संगानि तेषु बलीनां क्रियाः ताभिः तत्सैकतोत्संगबलिक्रियाभिः ।