________________
२४६
रघुवंशे
ता तङ्गदीस्नेहकृतप्रदीपनास्तीर्णमेध्याजिनतल्पमन्तः।
तस्यै सपर्यानुपदं दिनान्ते निवासहतोस्टजं वितेरुः ॥ ८१ ॥ तारतापरयस्तस्यै सीतायै सपर्यानुपदं पूजानन्तरं दिनान्ते सायंकाले निवास एव हेतुस्तस्य निवासहेतोः । निवासार्थमित्यर्थः । 'ठो हेतुप्रयोगे' इति षष्ठी। 'इङ्गुदी तापसतरुः' इत्यमरः । इगुदीरनेहेन कृतप्रदीपमन्तरास्तीर्ण मेध्यं शुद्धमजिनमेव तल्पं शय्या यस्मिंस्तमुटजं पर्णशालां
वितेरुर्ददुः ।।
अन्वयः-ताः तस्यै सपर्यानुपदं दिनान्ते निवासहेतोः इङ्गुदीस्नेहकृतप्रदीपम् अन्तः आरतीणभेध्याजिनतल्पम् उटजं वितेरुः।
व्याख्या-ताः= तपरिवन्यः तस्यै = सीताये पदश्य पश्चात् अनुपदं, सपर्यायाः = पूजायाः अनुपदम् = अनन्तरमिति सपर्यानुपदं दिनरय = दिवसस्य अन्तः= अवसानं तस्मिन् दिनान्ते, सायंकाले, इत्यर्थः। निवासः == आवासः एव हेतुः = कारणं तस्य निवासहेतोः, विश्रामार्थमित्यर्थः । इङ्गम् = अद्भुतं ति = अवखण्डयतीति इंगुदी = तापसतरुः, इगुंद्याः स्नेहः = तैलमिति इंगुदीरनेहः, इंगुदीस्नेहन कृतः = विहितः प्रज्वलित इत्यर्थः, दीपः = प्रदीपः यस्मिन् स तम् इङ्गुदीरनेहकृतप्रदीपम् । अन्तः = मध्ये आरतीर्णम् = आच्छादितं मध्यं = पवित्रम् अजिनं = मृगचर्म एव तत्पं = शय्या यस्मिन् स तम् आस्तीर्णनेध्याजिनतल्पम् उटात् = तृणपर्णादेः जातः इति उटजस्तम् उटज = पर्णशालां “मुनीनां तु पर्णशालोटजोऽस्त्रियाम्" इत्यमरः । वितेरुः = ददुः।
समासः-पदस्य पश्चात् अनुपदम् , सपर्यायाः अनुपदमिति सपर्यानुपदम् । दिनस्य अन्तः दिनान्तस्तस्मिन् दिनान्ते । निवासः एज हेतुस्तस्य निवासहेतोः । इंगुद्याः स्नेहः इंगुदीस्नेहः, इंगुदीस्नेहेन वृतः प्रदीपः यस्मिन् स तम् इंगुदीस्नेहकृतप्रदीपम् । आस्तीर्ण मेध्यम् अजिनम् एव तल्पं यस्मिन् स तम् आस्तीणमेध्याजिनतल्पम् ।
हिन्दी--पूजा के पश्चात् उन तपस्विनियों ने सायं काल में निवास के लिये ( रहने को। सीताजी को एक घास पृस पत्तों की बनी कुटिया दी, जिस कुटी में हिंगोट के तेल से दीपक जलाया गया था, जिसमें मृगछाला रूप पलंग बिछा था । अर्थात् मृगचर्म बिछी थी ॥ ८१ ॥
तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः । वन्येन सा जरुकलिनी शरीर पत्युः प्रजासंततये बमार ॥ ८२ ॥
तत्राश्रमेऽभिषेकेण स्नानेन प्रयता नियता वसन्ती विधिना शास्त्रेणातिथिभ्यः प्रयुक्तपूजा कृतसत्कारा वत्कलिनी सा सीता पत्युः प्रजासंततये संतानाविच्छेदहेतोः। वन्येन कन्दमूलादिना शरीरं बभार पुपोष॥
अन्दर:-तत्र अभिषेकप्रयता वसन्ती विधिना अतिथिभ्यः प्रयुक्तपूजा वल्कलिनो सा पत्युः प्रजासन्ततये वन्येन शरीरं बभार ।