________________
रघुवंशे
३३६
वर्णानां ब्राह्मणादीनामाश्रमाणां ब्रह्मचर्यादीनां च पालनं यत्स एव नृपस्य धर्मों मनुना प्रणीत उक्तः । अतः कारणादेवं त्वया निर्वासिता निष्कासिताप्यहं तपस्विभिः सामान्यं साधारणं यथा भवति तथावेक्षणीया । कलत्रदृष्ट्य भावेऽपि वर्णाश्रमदृष्टिः सीतायां कर्तव्येत्यर्थः ॥
अन्वयः - वर्णाश्रमपालनं यत् स एव नृपस्य धर्मः मनुना प्रणीतः । अतः एवं त्वया निर्वासिता अपि अहं तपस्विसामान्यम् " यथा स्यात्" तथा अवेक्षणीया ।
व्याख्या - वर्ण्यन्ते इति वर्णाः = ब्राह्मणादयः । आश्राम्यन्त्यत्र, अनेन वा आश्रमः, आ = समन्तात् श्रमः, स्वधर्म साधनक्लेशात् यत्र सः आश्रमः । वर्णानां = ब्राह्मणक्षत्रविट्शूद्राणाम् आश्रमाणां = ब्रह्मचर्यादीनां च पालनं = रक्षणमिति वर्णाश्रमपालनं यत्, सः एव नृपस्य = राज्ञः धरति लोकान्, धियते वा जनैरिति धर्मः = सुवृतम् कर्तव्यमित्यर्थः । मनुना = मनुस्मृतिनामकधर्मग्रन्थप्रणेत्रा, सूर्यपुत्रेण प्रणीतः = कथितः अतः = ऊरमात् कारणात् एवं = लोकापवादेन त्वया = रामेण निर्वासिता = निष्कासिता अपि अहं = सीता तपोऽस्त्येषां ते तपस्विनः । तपस्वि - भिः = तापसैः सामान्यं = साधारणं यथा स्यात् तथा अवेक्षणीया = द्रष्टव्या । पत्नीदृष्टयभावेऽपि वर्णाश्रमदृष्टिः मयि कर्तव्येत्यर्थः, राजधर्मत्वात् ।
समासः - वर्णाश्च आश्रमाश्चेति वर्णाश्रमाः, वर्णाश्रमाणां पालनमिति वर्णाश्रमपालनम् । तपस्विभिः सामान्यमिति तपस्विसामान्यम् ।
हिन्दी - वर्ण तथा आश्रमों की रक्षा करना ही राजा का धर्म, मनु ने कहा है । इस लिये केवल झूठी निन्दा के सुनने पर निकाल दी गई भी मुझे अन्य तपस्वियों के समान संभालते रहना । अर्थात् तपस्विनी तथा प्रजा समझकर ही मेरी रक्षा करना ॥ ६७ ॥
तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते ।
सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विघ्ना कुररीव भूयः ॥ ६८ ॥
तथेति तस्याः सीताया वाचं प्रतिगृह्याङ्गीकृत्य रामानुजे लक्ष्मणे दृष्टिपथं व्यतीतेऽतिक्रान्ते सति सा सीता व्यसनातिभारादुःखातिरेकान्मुक्तः कण्ठं यथा स्यात्तथा । वाग्वृत्त्येत्यर्थः । विग्ना भीता कुररीवोत्क्रोशीव । 'उत्क्रोशकुररौ समौ' इत्यमरः । भूयो भूयिष्ठं चक्रन्द चुक्रोश ॥
अन्वयः -- तथा इति तस्याः वाचं प्रतिगृह्य रामानुजे दृष्टिपथं व्यतीते सति सा व्यसनातिभारात् मुक्तकण्ठं “यथा स्यात्तथा" विना कुररी इव भूयः चक्रन्द ।
व्याख्या-
1 - - तथेति = एवं करिष्यामि, इति तरयाः = सीतायाः वाचं = वचनं कथनमित्यर्थः प्रतिगृह्य = स्वीकृत्य रामस्य अनुजः = कनिष्ठः रामानुजस्तस्मिन् रामानुजे = लक्ष्मणे दृष्टे : = नेत्रस्य पन्थाः = मार्गस्तं दृष्टिपथं व्यतीते = अतिक्रान्ते सति लक्ष्मणे प्रतिनिवृत्ते सतीत्यर्थः । सा = सीता व्यसनस्य = दुःखरय अतिभारः = अतिरेकः, आधिक्यमित्यर्थः इति व्यसनातिभारस्तस्मात् व्यसनातिभारात् मुक्तः = शिथिलीकृतः, अनियंत्रितः कण्ठः = गलः यस्मिन् कर्मणि तत् मुक्तकण्ठं यथा स्यात्तथा विग्ना = संतप्ता भीता इत्यर्थः कुररी = क्रौञ्ची इव यथा भूयः = भूयिष्ठं चक्रन्द = = रुरोद |