________________
चतुर्दशः सर्गः क्षाम् =औदासीन्यं त्यागमित्यर्थः। कुर्याम् = करवाणि एव = निश्चये । यदि = चेत् रक्षितुं योग्यं रक्षणीयं--पालनीयम् अन्तः = मध्ये, कुक्षौ गतं == प्राप्तं = वर्तमानमिति अन्तर्गतम् = कुक्षिस्थम् तवेदं त्वदीयं = त्वत्संबन्धि तेजः=वीर्य, गर्भरूपम् “शुक्रं तेजो रेतसी च बीजवीयेन्द्रि. याणि च" इत्यमरः। मेमम अन्तःमध्ये, अन्तरस्य = व्यवधानस्य वा अयनमिति अन्तरायः = विघ्नः “विघ्नोऽन्तरायः प्रत्यूहः" इत्यमरः। न स्यात् = न भवेत् , तदावश्यं शीरत्यागं कुर्यामित्यर्थः।
समासः-अत्यन्तश्चासौ वियोगः अत्यन्तवियोगः, अत्यन्तवियोगेन मोघं, तस्मिन् अत्यन्तवियोगमोघे । हतञ्च तज्जीवितमिति हतजीवितं तस्मिन् हतजीविते । अन्तः गतमिति अन्तर्गतम् । तवेदं त्वदीयम्।
हिन्दी-अथवा आपके इस सदा के लिये हुवे वियोग के कारण व्यर्थ अतएव तुच्छ जीवन की मैं उपेक्षा ही कर देती। अर्थात् शरीर त्याग देती, यदि रक्षा के योग्य मेरो कुक्षी में वर्तमान तुम्हारा तेज ( गर्भ ) बाधक न होता ॥ ६५ ॥
साहं तपः सूर्यनिविष्टदृष्टिरूवं प्रसूतेश्चरितुं यतिष्ये ।
भूयो यथा मे जननान्तरेऽपि त्वमेव मर्ता न च विप्रयोगः ॥६६॥ साहं प्रसूतेरूज़ सूर्यनिविष्टदृष्टिः सती तथाविधं तपश्चरितुं यतिष्ये। यथा भूयस्तेन तपसा मे मम जननान्तरेऽपि त्वमेव भर्ता स्याः विप्रयोगश्च न स्यात् ।।
अन्वयः-सा अहम् प्रसूतेः ऊर्ध्व सूर्यनिविष्टदृष्टिः सती तथाविधं तपः चरितुं यतिष्ये, यथा भूयः मे जननान्तरे अपि त्वमेव भर्ता स्याः, विप्रयोगः च न स्यात् ।
व्याख्या-सा = त्वया परित्यक्ता ( त्वद्वियुक्ता ) अहं = सीता प्रसवनं प्रसूतिः तस्याः प्रसूतेः = प्रसवस्य ऊर्ध्व = पश्चात् सूर्ये =भानौ निविष्टा = संस्थिता, स्थिरीकृता, दृष्टिः = नेत्रं यस्याः सा सूर्यनिविष्टदृष्टिः सती तथाविधं तपः= तपस्यां चरितुं = कर्तु यतिष्ये = प्रयत्नं करिष्ये यथा = येन प्रकारेण भूयः = पुनः मे = मम अन्यत् जननं जननान्तरं तस्मिन् जननान्तरे = अन्यस्मिन् जन्मनि अपि त्वमेव = राम एव भर्ता = पतिः स्याः = भवेः विप्रयोगः = विप्रलम्भः, वियोग इत्यर्थः । च न स्यात् = न भवेत् “विप्रयोगो विप्रलम्भः” इत्यमरः ।
समासः-सूर्ये निविष्टा दृष्टिः यस्याः सा सूर्यनिविष्टदृष्टिः । अन्यत् जननं जननान्तरं तस्मिन् जननान्तरे।
हिन्दी--पति से परित्यक्ता मैं पुत्रोत्पत्ति के बाद सूर्य में दृष्टि लगाकर ऐसी तपस्या करने का प्रयत्न करूँगी, जिससे कि फिर अगले जन्म में भी तुम ही मेरे पति हो, और वियोग कभी न हो ॥६६॥
नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रणीतः। निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ॥ ६७ ॥