________________
२३४
रघुवंशे
निशाचरोपप्लुतमर्तृकाणां तपस्विनीनां भवतः प्रसादात् ।
भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दीप्यमाने ॥ ६४ ॥ निशाचरैरुपप्लुताः पीडिता भर्तारो यासां ता निशाचरोपप्लुतभर्तृकाः । 'नघृतश्च' इति कप्पत्ययः । तासां तपस्विनीनां भवतः प्रसादादनुग्रहाच्छरण्या शरणसमर्था भूत्वा । अद्य त्वयि दीप्यमाने प्रकाशमाने सत्येव शरणार्यमन्यं तपस्विनं कथं प्रपत्स्ये प्राप्स्यामि ।।
अन्वयः-निशाचरोपमुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् शरण्या भूत्वा, अद्य त्वयि दोप्यमाने सति शरणार्थम् अन्यं कथं प्रपत्स्ये।
व्याख्या--निशासु चरन्तीति निशाचराः, निशाचरैः = राक्षसैः उपमुताः = पीडिताः भर्तारः स्वामिनः यासां ताः निशाचरोपमुतभर्तृकास्तासां निशाचरोपलतभर्तृकाणां तपोस्ति यासां ताः तपस्विन्यस्तासां तपस्विनीनां तापसीनाम् भवतः = तव रामस्य प्रसादात् = अनुग्रहात् शरणे साध्वी शरण्या = रक्षणसमर्था भूत्वा, अद्य त्वयि = भवति रामचन्द्रे दोप्यतेऽसौ दीप्यमानस्तस्मिन् दीप्यमाने = प्रकाशमाने सत्येव शरणायेदं शरणार्थ = रक्षार्थम् अन्यं = तापसं कथं = केन प्रकारेण प्रपत्स्ये = यास्यामि, प्राप्स्यामीत्यर्थः । त्वयि समर्थतरे चक्रवर्तिनि देदीप्यमाने अन्यस्य तपस्विनः शरणे गमनमतीव लज्जास्पदमिति भावः।
समासः-निशाचरैः उपप्लुताः भर्तारः यासां ताः निशाचरोपप्लुतास्तासां निशाचरोपप्लुतानाम् । शरणायेदं शरणार्थम्। .
हिन्दी—“वनवास के समय" जिनके पतियों को राक्षसों ने सता रखा था, उन तपस्विनियों को आपकी कृपा से शरण देने वाली होकर, ( उन्हें आश्रय देकर ) आज तुम्हारे जैसे तेजस्वी सम्राट् के रहते हुए, भला मैं किसी दूसरे तपस्वी को शरण में कैसे जा सकुँगी, अर्थात् दूसरे की आश्रिता होकर कैसे रहूँगी ॥ ६४ ॥
किंवा तवात्यन्तवियोगमोघे कुर्यामुपेक्षा हतजीवितेऽस्मिन् ।
स्याद्रक्षणीय यदि मे न तेजस्त्वदीयमन्तगतमन्तरायः ।। ६५ ।। किंवाऽथवा तव संबन्धिनात्यन्तेन पुनःप्राप्तिरहितेन वियोगेन मोघे निष्फलेऽस्मिन्हतजीविते तुच्छजीविते उपेक्षां कुर्यां कुर्यामेव । रक्षणीयं रक्षणार्हमन्तर्गतं कुक्षिस्थं त्वदीयं तेजः शुक्र गर्भरूपम् । 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः । मे ममान्तरायो विन्नो न स्यायदि ॥
अन्वयः-किंवा तत्र अत्यन्तवियोगमोघे अस्मिन् हतजीविते उपेक्षां कुर्याम् एव यदि रक्षणीयम् अन्तर्गतं त्वदीयं तेजः मे अन्तरायः न स्यात् ।
व्याख्या-किंवा = अथवा तव =भवतः रामस्य अत्यन्तः = पुनर्मिलनरहितश्चासौ वियोगः = विच्छेदः, तेन मोघं = निरर्थक तस्मिन् अत्यन्तवियोगमोघे “मोघं निरर्थकम्" इत्यमरः। अस्मिन् = मल्लक्षणे हतं = तुच्छञ्च तत् जीवितं = जीवनं तस्मिन् हतजीविते उपे