________________
चतुर्दशः सर्गः
२३३
व्याख्या अथवा = पक्षान्तरे कल्यं = नीरुजत्वमाणयति, कल्ये = प्रातःकाले अव्यते, इति कल्याणा कल्याणा = शिवा बुद्धिः = धीः यस्य स तस्य कल्याणबुद्धेः तव =रामस्य कर्तुः मयि =सीताविषये अयं = त्यागः कामेन= स्वेच्छया चर्य्यते, इति कामचारः= स्वेच्छाचारिता न शंकनीयः, स्वेच्छाचारिताशंकापि न कार्या, इत्यर्थः। किन्तु मम = सीतायाः एव अन्यानि जन्मानि जन्मान्तराणि, जन्मान्तरेषु पातकाः=पापानि तेषां जन्मान्तरपातकानां = पूर्वजन्मकृतपापानाम् प्रकर्षेण सोढुं योग्य प्रसह्यः न प्रसह्यः अप्रसह्यः =सोढुमशक्यः विपच्यते इति विपाकः। विशेषेण स्फूर्जनमिति विस्फूर्जथुः। विपाकः = फलम् एव विस्फूर्जथुः = वज्रनिर्घोषः, अशनिशब्दः इत्यर्थः। इति विपाकविस्फूर्जथुः अस्तीति शेषः । “विस्फूर्जथुर्वज्रनिर्घोषः” इत्यमरः।।
समास-कल्याणा बुद्धिर्यस्य स कल्याणबुद्धिस्तस्य कल्याणबुद्धः । कल्याणे बुद्धिर्यस्य तस्येति वा । अन्यत् जन्म जन्मान्तरम् , जन्मान्तरे पातकाः जन्मान्तरपातकास्तेषां जन्मान्तरपातकानाम् । विपाक एव विस्फूर्जथुरिति विपाकविस्फूर्जथुः । कामेन चारः कामचारः ।
हिन्दी-अथवा सब का कल्याण करने वाले आपका मेरे प्रति यह मनमाना व्यवहार है। ऐसी शंका नहीं करनी चाहिये। किन्तु ( आपने जो मेरा त्याग किया है ) यह सब मेरे ही पूर्व जन्म में किये हुए पापों का असह्य फल रूपी वज्रपात है ॥ ६२ ॥
उपस्थितां पूर्वमपास्य लक्ष्मी वनं मया सार्धमसि प्रपन्नः ।
तदास्पदं प्राप्य तयातिरोषात्सोढास्मि न त्वद्भवने वसन्ती ॥ ६३ ॥ पूर्वमुपस्थितां प्राप्तां लक्ष्मीमपास्य मया साध वनं प्रपन्नोऽसि प्राप्तोऽसि । तत्तस्मात्तया लक्ष्म्यातिरोषात्त्वद्भवन आस्पदं प्रतिष्ठाम् । 'आस्पदं प्रतिष्ठायाम्' इति निपातः । प्राप्य वसन्त्यहं. सोढा नास्मि ।
अन्वयः–पूर्वम् उपस्थितां लक्ष्मीम् अपास्य मया सार्ध वनं प्रपन्नः असि तत् तया अतिरोषात् त्वद्भवने आस्पदं प्राप्य वसन्ती अहं सोढा न अस्मि ।
व्याख्या-पूर्व = वनगमनात् प्रथमम् उपस्थितां प्राप्तां लक्षयति = पश्यति नीतिशमिति लक्ष्मीः तां लक्ष्मी = राज्यलक्ष्मीम् अपास्य = परित्यज्य मया=सीतया साध = साकं वनं दण्डकारण्यं प्रपन्नः= प्राप्तः असि, वनं गतोऽसीत्यर्थः । तत् = तस्मात्कारणात् तया = लक्ष्म्या अतिशयितः रोषः = क्रोधः अतिरोषस्तस्मात् अतिरोषात् = अतिकोपात् तव रामरय भवनं गृहं तस्मिन् त्वद्भवने आपद्यतेऽस्मिन्निति आस्पदं प्रतिष्ठां प्राप्य = अवाप्य वसन्ती = निवसन्ती अहं सोढा = मर्षिता न= नहि अस्मि ।
समासः-अतिशयितः रोषः अतिरोषस्तस्मात् अतिरोषात् । तव भवनमिति त्वद्भवनं तस्मिन् त्वद्भवने।
हिन्दी-पहले आई हुई जिस लक्ष्मी को छोड़कर तुम मेरे साथ दण्डक वन में चले गये थे। इसलिये वह लक्ष्मी अत्यन्त रुष्ट होकर प्रतिष्ठापूर्वक, आपके भवन में रहती हुई मुझ को सहन न कर सकी। मुझे ऐसा जान पड़ता है ॥ ६३ ॥