________________
२३२
रघुवंशे वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् ।
मां लोकवादश्रवणदहासीः श्रुतस्य किं तत्सदृशं कुलस्य ॥ ६ ॥ स राजा त्वया मद्वचना-मद्वचनमिति कृत्वा । ल्यब्लोपे पञ्चमी । वाच्यो वक्तव्यः । किमित्यत आह–'वह्नौ' इत्यादिभिः सप्तभिः श्लोकः। अक्ष्णोः समीपे समक्षम् । विभक्त्यर्थेऽव्ययीभावः सामीप्यार्थे वा। 'अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्तष्टच्प्रत्ययः। समक्षमग्रे वह्नौ विशुद्धामपि मां लोकवादस्य मिथ्यापवादस्य श्रवणाद्धेतोरहासीरत्याक्षीरिति यत्तच्छ्र तस्य प्रख्यातस्य कुलस्य सदृशं किम् । किं त्वसदृशमित्यर्थः, यद्वा श्रुतस्य श्रवणस्य कुलस्य चेति योजना। कामचार्यसीति भावः ॥
अन्वयः-सः राजा त्वया मद्वचनात् वाच्यः, समक्षं वह्नौ विशुद्धाम् अपि माम् लोकवादश्रवणात् अहासीः “इति यत्" तत् श्रुतस्य कुलस्य सदृशं किम् ।
व्याख्या-सः= प्रसिद्धः राजा = नृपः उच्यते इति वचनम् । मम =सीतायाः वचनं = वचः इति मद्वचनं तस्मात् मद्वचनात् मम-वचनमिति कृत्वा । वाच्यः = कथनीयः। किमित्याहसप्तभिः श्लोकैः। अक्ष्णोः = नेत्रयोः समीपे, समक्षम् = अग्रे वह्नौ = पावके विशुद्धां = निर्मलां, निष्कलंकाम् अपि माम् = सीताम् लोकानां = जनानां वादः = मिथ्यापवादः, तस्य श्रवणम् = आकर्णनं तस्मात् लोकवादश्रवणात्, मिथ्यानिन्दाश्रवणेन .हेतुनेत्यर्थः। अहासीः = अत्याक्षीः, इति यत् = प्रत्याख्यानरूपम्, तत् श्रुतस्य = शास्त्राध्ययनस्य किं सदृशं कुलस्य = प्रख्यातसूर्यवंशस्य सदृशं किम् इति प्रश्ने, किन्तु कस्यापि न सदृशमित्यर्थः ।
समासः-मम वचनमिति मद्वचनं तस्मात् मद्वचनात् । अक्षणोः समीपं समक्षम् । लोकानाम् वादः लोकवादः, लोकवादस्य श्रवणं तस्मात् लोकवादश्रवणात् ।
हिन्दी-और उस राजा से जाकर तुम मेरा वचन कहना। अर्थात् मेरी ओर से कहना कि अपनी आँखों के सामने अग्नि में शुद्ध निष्कलंक पाकर भी मुझे केवल लोगों के झूठे अपवाद के सुनने के कारण तुमने जो छोड़ दिया है सो यह क्या शास्त्रानुसार है या प्रसिद्ध सूर्यकुल के अनुसार है ? ॥ ६१॥
कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः ।
ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ॥ ६२॥ अथवा कल्याणबुद्धः सुधियस्तव कर्तुः मयि विषयेऽयं त्यागो न कामचार इच्छया करणं न शङ्कनीयः । कामचारशङ्कापि न क्रियत इत्यर्थः। किंतु ममैव जन्मान्तरपातकानामप्रसह्यो विपच्यत इति विपाकः फलित एव विस्फूर्जथुरशनिनिघोषः । 'स्फूर्जथुर्वज्रनिघोषः' इत्यमरः ॥
अन्वयः-अथवा कल्याणबुद्धेः तव मयि अयं कामचारः न शंकनीयः “किन्तु" मम एव जन्मान्तरपातकानाम् अप्रसह्यः विपाकविस्फूर्जथुः ।