________________
चतुर्दशः सर्गः
२३१
व्याख्या - सीता = जानकी तं= लक्ष्मणम् उत्थाप्य उच्यते इति वाक्यं = वचनार्हं जगाद = उक्तवती । हे सौम्य ! = हे सज्जन ! ते = तुभ्यं प्रीता = प्रसन्ना अस्मि चिराय = चिरकालं जीव = प्राणान् धारय, यत् = यस्मात् कारणात् विडतीति विडं = भेदकम् ओजोवलं यस्य सः विट्सु = मनुष्येषु, प्रजासु वा ओजोऽस्येति विडौंजास्तेन विडौजसा = इन्द्रेण वेवेष्टि = व्याप्नोतीति विष्णुः = इन्द्रावरजः, उपेन्द्रः इव = यथा अग्रे = प्रथमं जात इति अग्रजस्तेन अग्रजेन = ज्येष्ठभ्रात्रा त्वं = लक्ष्मणः इत्थम् = एवं परः = स्वामी अस्यास्तीति परवान् = परतंत्र: "परतंत्रः पराधीनः परवान्नाथवानपि " इत्यमरः । असि = भवसि । त्वं हि ज्येष्ठभ्रात्रधीनः अतो न तेऽपराधः, इत्यर्थः ः ।
समासः - विडम् ओजोऽस्य स विडौजास्तेन विडौजसा ।
हिन्दी - सीता जी लक्ष्मण को उठाकर बोली कि हे सज्जन ! मैं तुम पर प्रसन्न हूँ । तुम चीरंजीव रहो । इसलिये कि जिस प्रकार इन्द्र से विष्णु पराधीन है उसी प्रकार तुम भी बड़े भाई से पराधीन हो । अर्थात् जैसे विष्णु इन्द्र की आज्ञा मानते हैं वैसे ही तुम भी बड़े भाई राम की आज्ञा पालन करते हो ॥ ५९ ॥
श्वश्रूजनं सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणामः ।
प्रजानिषेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति ॥ ६० ॥
सर्व श्वश्रूजनमनुक्रमेण प्रापितमत्प्रणामः सन् । मत्प्रणाममुक्त्वेत्यर्थः । विज्ञापय । किमिति । निषिच्यत इति निषेकः । मयि वर्तमानं सूनोर्भवत्पुत्रस्य प्रजानिषेकं गर्भं चेतसानुध्यायत शिवमस्त्विति चिन्तयतेति ॥
अन्वयः - सर्व श्वश्रूजनम् अनुक्रमेण प्रापितमत्प्रणामः सन् विज्ञापय, मयि वर्तमानं सूनोः प्रजानिषेकं चेतसा अनुध्यायत इति ।
व्याख्या—सर्वम् = सम्पूर्णं कौशल्यासु मित्राकैकेयीः इत्यर्थः । श्वशुरस्य स्त्री श्वश्रूः श्वश्रूश्वासौ जनः श्वश्रूजनस्तं श्वश्रूजनम् = पतिप्रसूजनम् अनुक्रमणमिति अनुक्रमस्तेन अनुक्रमेण = पर्यायेण मम प्रणामः मत्प्रणामः । प्रापितः = कथितः मत्प्रणामः = सीताकृत नमस्कारः येन स प्रापितमत्प्रणामः सन् मम प्रणाममुक्तवेत्यर्थः त्वं विज्ञापय = प्रार्थय । किमित्याह - मयि सीतायां, मम कुक्षौ इत्यर्थः वर्तमानं = स्थितं सूनोः = त्वत्पुत्रस्य निषिच्यते = प्रक्षिप्यते इति निषेकः, प्रजायै = सन्तानार्थं निषेकः = गर्भस्तं प्रजानिषेकं चेतसा = मनसा अनुध्यायत = कल्याणमस्त्विति चिन्तयतेति ।
समासः - प्रापितः मम प्रणामो येन स प्रापितमत्प्रणामः । प्रजायै निवेकस्तं प्रजानिषेकम् । श्वश्रूश्वासौ जनः श्वश्रूजनः तं श्वश्रूजनम् ।
"
हिन्दी- - तुम घर जाकर सभी सासों ( कौशल्या, सुमित्रा कैकेयी) से क्रम से मेरा प्रणाम कह कर उनसे निवेदन करना कि मेरी कुक्षि में आपके पुत्र का तेज ( गर्भ ) है । आप हृदय से उसके कल्याण की कामना करें ॥ ६० ॥