________________
२३०
रघुवंशे
हिन्दी-साध्वी सीता ने विना पाप ( अपराध ) के भी त्याग करने के स्वभाव वाले पति की निन्दा नहीं की। अर्थात् पति के प्रति एक भी शब्द नहीं कहा । किन्तु स्थिर ( सदा ) दुःखको भोगने वाले अतः पापी अपने आत्मा की ही बार-बार निन्दा की ॥ ५७ ॥
आश्वास्य रामावरजः सती तामाख्यातवाल्मीकिनिकेतमार्गः । निध्नस्य मे मर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः ॥ ५८ ॥ रामावर जो लक्ष्मणः सती साध्वीं तामाश्वास्य । आख्यात उपदिष्टो वाल्मीकेनिकेतस्याश्रमस्य मार्गों येन स तथोक्तः सन्। निन्नरय पराधीनस्य। 'अधीनो निम्न आयत्तः' इत्यमरः । मे भर्तृनिदेशेन स्वाम्यनुशया हेतुना यद्रौक्ष्यं पारुष्यं तद्धे देवि, क्षमस्व इति नम्रः प्रणतो बभूव ॥
अन्वयः-रामावरजः सतीं ताम् आश्वास्य आख्यातवाल्मीकिनिकेतमार्गः सन् निघ्नस्य मे भर्तृनिदेशरीक्ष्यं हे देवि ! क्षमस्व इति नम्रः बभूव ।
व्याख्या-रामात् अवरजः रामावरजः = लक्ष्मणः सती =साध्वीं ताम् =सीताम् आश्वास्य = समाश्वासनं कृत्वा निकेत्यतेऽस्मिन्निति निकेतम् । आख्यातः = कथितः वाल्मीकेः= महर्षेः निकेतस्य = आश्रमरय मार्ग:=पन्थाः येन सः आख्यातवाल्मीकिनिकेतमार्गः सन् निहन्यते= निगृह्यते इति निघ्नः, तरय निघ्नस्य = परतंत्रस्य "अधीनो निघ्न आयत्तोऽस्वच्छन्दः" इत्यमरः। मे =मम लक्ष्मणस्य भर्तुः = स्वामिनः निदेशः =शासनं भर्तृनिदेशः, रूक्षस्य भावः रौक्ष्यम् । भर्तृनिदेशेन, कारणेन, यत् रौक्ष्यं = पारुष्यं कठोरता तत् भर्तृनिदेशरौक्ष्यं हे देवि ! हे पूज्ये ! क्षमस्व सहस्व, ममापराधः क्षन्तव्यः इत्यर्थः । इति = एवमुक्तवा नम्रः%विनीतः प्रणत इत्यर्थः । बभूव = जातः।
समासः-रामात् अवरजः रामावरजः। वाल्मीकेः निकेतः वाल्मीकिनिकेतः, वाल्मीकिनिकेतस्य मार्गः वाल्मीकिनिकेतमार्गः आख्यातः वाल्मीकिनिकेतमार्गः येन सः आख्यातवाल्मीकिनिकेतमार्गः । भर्तुः निदेशः, भर्तृनिदेशः भर्तृनिदेशेन यत् रौक्ष्यं तत् भर्तृनिदेशरौक्ष्यम् ।
हिन्दी-राम के छोटे भाई लक्ष्मण ने सती साध्वी सीता को सान्त्वना देकर ( समझाकर ) तथा महर्षिवाल्मीकि के आश्रम का मार्ग बताकर कहा कि हे देवी! मैं पराधीन हूँ। इसलिये स्वामी ( महाराज राम ) की आज्ञा से मैंने जो कठोर व्यवहार किया है उसे क्षमा करें। यह कह के नम्र हो गये। अर्थात् सीता के चरणों में प्रणत हो गये ॥ ५८ ॥
सीता तमुत्थाप्य जगाद वाक्यं प्रीतास्मि ते सौम्य चिराय जीव ।
बिडोजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम् ॥ ५९ ॥ सीता तं लक्ष्मणमुत्थाप्य वाक्यं जगाद । किमिति। हे सौम्य साधो, ते प्रीतास्मि । चिराय चिरं जीव। यद्यस्मात् । बिडौजसेन्द्रेण विष्णुरुपेन्द्र इव अग्रजेन ज्येष्ठेन भ्रात्रा त्वमित्थं परवान्परतन्त्रोऽसि ॥
अन्वयः-सीता तम् उत्थाप्य वाक्यं जगाद, हे सौम्य ! ते प्रीता अस्मि चिराय जीव । रत् बिडोजसा विष्णुः इव अग्रजेन भ्रात्रा त्वम् इत्थं परवान् असि ।