________________
चतुर्दशः सर्गः
२२९ व्याख्या-लुप्ता = नष्टा संज्ञा = चेतना यस्याः सा लुप्तसंशा सा=सोता दुःख = कष्टं न विवेद =न शातवती मूच्छितत्वादित्यर्थः । “संशा स्याचेतना" इत्यमरः। अस्यन्ते, अस्यन्ति वा असवः। प्रत्यागताः=पुनरागताः प्रतिनिवृत्ताः असवः =प्राणाः यस्याः सा प्रत्यागतासुः= प्राप्तचेतना सती अन्तः =मनसि समतप्यत =अदह्यत, अन्तःकरणेऽतीव दुःखिताभूदित्यर्थः । तस्याः सीतायाः सुमित्रायाः= दशरथराजपत्न्याः तनयः =पुत्रः तस्य यत्नः =प्रयासः तेन लब्धःप्राप्तः, इति सुमित्रात्मजयनलब्धः प्रकर्षण बोधः प्रबोधः = ज्ञानम् मोहनं मोहःमूर्छा तस्मात् मोहात् “मूर्छा तु कश्मलं मोहः” इत्यमरः। अतिशयेन कष्टः कष्टप्रदः इति कष्टतरः=अतिशयेन दुःखपदः अभूत् = जातः, मूर्छावस्थापेक्षया चेतनावस्था अतीव दुःखपदा जातेत्यर्थः।
समासः-लुप्ता संज्ञा यस्याः सा लुप्तसंज्ञा। प्रत्यागताः असो यस्याः सा प्रत्यागतासुः । सुमित्रायाः आत्मजः सुमित्रात्मजः सुमित्रात्मजस्य यत्नः सुमित्रात्मजयत्नस्तेन लब्धः, इति सुमित्रात्मजयत्नलब्धः।
हिन्दी-चेतना के नष्ट होने से ( भूर्छा आ जाने से ) सीता ने दुःख को नहीं जाना । किन्तु प्राणों के पुनः लौट आने ( मूर्छा दूर होने ) से वह सीता मन में बड़ी ही दुःखित हुई । सुमित्रानन्दन लक्ष्मण के प्रयत्न ( जलसिंचनादि ) से आया सीता का शान, मूर्छा ( बेहोशी ) की अपेक्षा अत्यन्त दुःखप्रद हो गया ॥ ५६ ॥
न चावदद्भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि ।
आत्मानमेव स्थिरदुःखमाजं पुनः पुनर्दुष्कृतिनं निनिन्द ॥ ५७ ॥ आर्या साध्वी सा सीता वृजिनादृत एनसो विनापि । 'कलुषं वृजिनैनोऽयम्' इत्यमरः। 'अन्यारादितरते-' इत्यादिना पञ्चमी। निराकरिष्णोनिरासकस्य । 'अलंकृञ्-' इत्यादिनेष्णुच्प्रत्ययः । भर्तुरवर्णमपवादं न चावदन्नैवावादीत्। किंतु स्थिरदुःखमाजमत एव दुष्कृतिनमात्मानं पुनः पुननिनिन्द ॥
अन्वयः-आर्या वृजिनात् ऋते अपि निराकरिष्णोः भर्तुः अवर्ण न अवदत् “किन्तु" स्थिरदुःखमाजम् “अतएव" दुष्कृतिनम् आत्मानम् एव पुनः पुनः निनिन्द।
व्याख्या-आर्या = सती, साध्वी सा सीता वृन्यते इति वृजिनं तस्मात् वृजिनात् = कल्मपात् , पापादित्यर्थः। "वृजिनं कल्मषे क्लीबं, केशे नाकुटिले त्रिषु" इति मेदिनी। ऋते = विनापि निराकरिष्णोः = निरासकरय, निराकर्तुं शीलस्य भर्तुः=स्वामिनः, पत्युः अवर्ण = निन्दा न अवदत् =नोक्तवती। किन्तु स्थिरं = चिरस्थायिदुःखं भजतीति स्थिरदुःखभाक् तं स्थिरदुःखभाजम् = बहुकालवर्यन्तकष्टसेविनम् अतएव दुष्टं कृतं = पापम् अस्यास्तीति दुष्कृती तं दुष्कृतिनम् आत्मानं = स्वं पुनः पुनः = भूयो भूयः निनिन्द = निन्दितवती, नतु स्वामिनं प्रति किमपि उक्तवतीत्यर्थः।
समासः-स्थिरं च तदुःखमिति स्थिरदुःखं तद् भजते, इति स्थिरदुःखभाक् तं स्थिरदुःखभाजम् । न वणेः अवर्णस्तम् अवर्णम् ।