________________
२२८
रघुवंशे
हिन्दी-राजा की आशा सुनते ही, पति के परित्यागरूपी कठोर वायु से प्रताडित ( अपमानित तथा सूखी हुई ) तथा जिसके आभूषणरूपी फूल गिर गए, ऐसी सीता तुरन्त उस लता के समान अपनी जननी पृथिवी पर गिर पड़ी, जो लता गरम वायु के थपेड़ों से मुरझा गई है। उसके फूल और लता भी जमीन में गिर जाती है ॥ ५४॥
इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः ।
इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत् ॥ ५५ ॥ इक्ष्वाकुवंशप्रभवः । महाकुलप्रसूतिरित्यर्थः । आर्यवृत्तः साधुचरितः पतिर्भर्ता त्वामकस्मादकारणात्कथं त्यजेत् । असंभावितमित्यर्थः । इति संशयितेव संदिहानेव तावत् । त्यागहेतुशनावधेः प्रागित्यर्थः । जननी क्षितिरतस्य सीतायें प्रवेशम् । आत्मनीति शेषः । न ददौ ॥
अन्वयः-इक्ष्वाकुवंशप्रभवः आर्यवृत्तः पतिः त्वाम् अकस्मात् कथं त्यजेत् इति संशयिता इव तावत् जननी क्षितिः तस्यै प्रवेशं न ददौ।
व्याख्या--इक्षुमाकरोति, छिक्कायां जातम् इक्षु इति शब्दमकतोति वा इक्ष्वाकुः । इक्ष्वाकोः= मनुपुत्रस्य वंशः= कुलम् प्रभवः= कारणं यस्य सः इक्ष्वाकुवंशप्रभवः आर्य = श्रेष्ठं वृत्तं चरितं यस्य सः आर्यवृत्तः पतिः= स्वामी त्वां सीताम् अकस्मात् = अतकिंतम् , अकारणमित्यर्थः । कथं = केन प्रकारेण त्यजेत् =त्यक्तुं शक्नुयात्, सर्वथा असंभावितमित्यर्थः । इति हेतोः संशयिता=संशयमापन्ना इव=यथा जननी=माता "जनयित्री प्रसूर्माता जननी" इत्यमरः । तावत् = प्रथमम् त्यागकारणज्ञानकालपर्यन्तमित्यर्थः। क्षितिः = पृथिवी तस्यै = सीतायै प्रवेशम् = स्वात्मनिलयं न ददौ =न अदात्, न दत्तवतीत्यर्थः ।
समासः-इक्ष्वाकोः वंशः प्रभवः यस्य सः इक्ष्वाकुवंशप्रभवः। आर्य वृत्तं यस्य सः आर्यवृत्तः । हिन्दी-महाराज इक्ष्वाकु के वंश में उत्पन्न तथा श्रेष्ठ आचरण वाले पति राम विना कारण अचानक सीता को कैसे छोड़ सकते हैं। मानो इस दुविधा में पड़ी माता पृथिवी ने सीता को अपनी गोद में पहले ही प्रविष्ट नहीं किया ॥ ५५ ॥
सा लुप्तसंज्ञा न बिवेद दुःखं प्रत्यागतासुः समतप्यतान्तः ।
तस्याः सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतरः प्रबोधः ॥ ५६ ॥ लुप्तसंशा नष्टचेतना मूच्छिता सा दुःखं न विवेद । प्रत्यागतासुर्लब्धसंज्ञा सत्यन्तः समतप्यत । दुःखेनादह्यतेत्यर्थः। तपेः कर्मणि लङ्। कर्मकर्तरीति केचित् । तन्न। 'तपस्तपःकर्मकस्यैव' इति यनियमात् । तरयाः सीतायाः सुमित्रात्मजयत्नलब्धः प्रबोधो मोहात्कष्टतरोऽतिदुःखदोऽभूत् । दुःखवेदनासंभवादिति भावः ।।
अन्वयः-लुप्तसंज्ञा सा दुःखं न विवेद, प्रत्यागतासुः सती अन्तः समतप्यत, तस्याः सुमित्रात्मजयतलब्धः प्रवोधः मोहात् कष्टतरः अभूत् ।