________________
चतुर्दशः सर्गः
२३७
समासः -- व्यसनस्य अतिभारः व्यसनातिभारस्तस्मात् व्यसनातिभारात् । रामस्य अनुजस्तस्मिन् रामानुजे । दृष्टेः पन्थास्तं दृष्टिपथम् । मुक्तः कण्ठः यस्मिन् कर्मणि तत् मुक्तकण्ठम् ।
हिन्दी - यह सुनकर लक्ष्मण ने कहा कि मैं सब कह दूँगा । ऐसा स्वीकार करके राम के छोटे भाई लक्ष्मण के दृष्टि से ओझल होते ही सीताजी, भारी विपत्ति ( दुःख ) के भार से डरी हुई कुररी ( जलमुर्गों बगुला ) की भाँति गला फाड़-फाड़ कर ( धाड़ मार कर ) रोने लगीं ॥ ६८ ॥
नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिष्यः । तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्बुदितं वनेऽपि ॥ ६९ ॥
मयूरा नृत्यं विजहुस्य तत्रन्तः । वृक्षाः कुसुमानि । हरिण्य उपात्तान्दर्भान् । इत्थं तस्याः सीतायाः समदुःखभावं प्रपन्ने तुल्यदुःखत्वं प्राप्ते वनेऽप्यत्यन्तं रुदितमासीत् । तथा रामगेहेऽपीत्यपिशब्दार्थः ॥
अन्वयः - मयूराः नृत्यं विजहुः, वृक्षाः कुसुमानि, हरिण्यः उपात्तान् दर्भान् विजहुः । इत्थम् तस्याः समदुःखभावं प्रपने वने अपि अत्यन्तं रुदितम् आसीत् ।
व्याख्या–मह्यां रुत्रन्तीति मयूराः = बर्हिणः नृत्यं = नर्तनं विजहुः = तत्यजुः, त्यक्तवन्त इत्यर्थः । वृक्षाः पादपाः कुसुमानि पुष्पाणि विजहुः । हरन्ति मनांसि लोकानामिति हरिणाः तेषां स्त्रियः हरिण्यः = मृग्यः उपात्तान् = प्राप्तान् मुखे गृहीतानित्यर्थः । दर्भान् = कुशान् घासानिति यावत् । विजहुः = तत्यजुः । इत्थम् = एवं प्रकारेण तस्या: = : सीतायाः दुःखस्य = कष्टस्य भावः= स्थितिः, अवस्था, इति दुःखभावः समः = समानश्चासौ दुःखभावः = व्यसनावस्था तं समदुःखभावं प्रपन्ने = प्राप्ते वने = कानने अपि अत्यन्तम् = अत्यधिकं रुदितं क्रन्दितं, रोदनमित्यर्थः । " क्रन्दितं रुदितं कुष्टमित्यमरः " । आसीत् = अभवत् । अपिशब्दात् अयोध्यायां राजभवनेऽपि रोदनं जातमित्यर्थः ।
=
समासः—दुःखस्य भात्रः दुःखभावः, समश्चासौ दुःखभावः, समदुःखभावस्तं समदुःखभावम् । हिन्दी - सीता जी का रोना सुनकर, मोरों ने नाचना छोड़ दिया । और वृक्षों ने पुष्प गिरा दिये । ( फूलरूपी आँसू बहा दिये ) तथा हरिणियों ने मुँह में ( खाने को ) लो हुई घास को गिरा दिया। इस प्रकार सीता के समान दुःख को प्राप्त हुए उस वन में भी अत्यन्त रुदन होने लगा । अर्थात् सीता के दुःख से दुःखी सम्पूर्ण जंगल रोने लगा । अपि शब्द से अयोध्या में भी ऐसा ही रोना मचा था ॥ ६९ ॥
तामभ्यगच्छद्भुदितानुसारी कविः कुरोध्माहरणाय यातः ।
निषादविद्वाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः ॥ ७० ॥
कुशेध्माहरणाय यातः कविर्वाल्मीकी रुदितानुसारी संस्तां सीतामभ्यगच्छत् । अभिगमनं च दयालुतयेत्याह – निषादेति । निषादेन व्याधेन विद्धस्याण्डजस्य क्रौञ्चस्य दर्शनेनोत्थ उत्पन्नो