________________
२२०
रघुवंशे ___ इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् ।
न कशन भ्रातृषु तेषु शक्तो निषेन्द्रमासोदनुमोदितुं वा ॥ ४३ ॥ इत्युक्तवन्तं जनकात्मजायां विषये नितान्तरूक्षाभिनिवेशमतिक्रूराग्रहमीशं स्वामिनं तेषु भ्रातृषु मध्ये कश्चनापि निषेधुं निवारयितुमनुमोदितुं प्रवर्तयितुं वा शक्तो नासीत् । पक्षद्वयस्यापि प्रबलत्वादित्यर्थः ।।
अन्वय-इति उक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशम् ईशं तेषु भ्रातृषु मध्ये कश्चन अपि निषेद्भुम् अनुमोदितुं वा न शक्तः आसीत् ।
व्याख्या-इति = इत्थं पूर्वोक्तप्रकारेण उक्तवन्तं = कथयन्तं जनकस्य = विदेहस्य आत्मजा = पुत्री जनकात्मजा तस्यां जनकात्मजायां विषये नितान्तम् = अत्यन्तं रूक्षः =क्रूरः कठोरः अभि. निवेशः = आग्रहः, दृढसंकल्पः यस्य स तं नितान्तरक्षाभिनिवेशम् ईशं = ईश्वरं स्वामिनं राम, तेषु भ्रातृषु = भरतादिसहोदेरषु मध्ये कश्चनापि = कोऽपि जनः निषेधुं = निवारयितुम् अनु. मोदितुं = समर्थयितुं वा न शक्तः = न समर्थः आसीत् = जातः ।
समासः–जनकस्य आत्मजा, जनकात्मजा तरयां जनकात्मजायाम्। नितान्तं रूक्षः अभिनिवेशः यस्य स तं नितान्तरूक्षाभिनिवेशम् ।
हिन्दी-इस प्रकार कहते हुए, सीता जी के विषय में अत्यन्त कठोर दृढनिश्चय वाले राम को, उन भाइयों में से कोई भी रोकने में या समर्थन करने में ही समर्थ हो न सका ॥४३॥
स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकोतिः ।
सौम्येति चाभाष्य यथार्थमाषो स्थित निदेशे पृथगादिदेश ॥ ४४ ॥ लोकत्रयगीतकीर्तियथार्थभाषी लक्ष्मणपूर्वजन्मा लक्ष्मणाग्रजः स रामो निदेशे रिथतमाशाकारिणं लक्ष्मणं विलोक्य 'हे सौम्य, सुभग' इत्याभाष्य च पृथग्भरतशत्रुघ्नाभ्यां विनाकृत्यादिदेशाज्ञापयामास ॥
अन्वयः-लोकत्रयगीतकीर्तिः यथार्थभाषी लक्ष्मणपूर्वजन्मा सः निदेशेरिथतं लक्ष्मणं विलोक्य हे सौम्य ! इति आभाष्य च पृथग् आदिदेश ।
ग्याख्या-लोकानां त्रयामिति लोकत्रयं, लोकत्रये = भुवनत्रये गीता = गानं नीता कीर्तिः = यशः यस्य स लोकत्रयगीतकीतिः अर्थमनतिक्रम्य यथार्थ = सत्यं भाषते तच्छोल: यथार्थभाषी लक्ष्मणात् पूर्व जन्म यस्य स लक्ष्मणपूर्वजन्मा = लक्ष्मणाग्रजः रामः निदेशे = आशा. यां स्थितं = वर्तमानं आज्ञाकारिणमित्यर्थः । लक्ष्मणं = सौमित्रिं विलोक्य = दृष्ट्वा सोमइव सोमः, सोम एव सौम्यः, तत्संबुद्धौ हे सौम्य = हे सुन्दर ! इति = इत्थम् आभाष्य = कथयित्वा च पृथक् = भरतशत्रुघ्नो वजेयित्वा आदिदेश = आज्ञापितवान् ।
समासः-लोकानां त्रयमिति लोकत्रयं, लोकत्रये गीता कीर्तिः यस्य स लोकत्रयगीतकीर्तिः । लक्ष्मणात् पूर्वस्मिन् काले जन्म यस्य स लक्ष्मणपूर्वजन्मा।