________________
चतुर्दशः सर्गः
२२१ हिन्दी-तीनों लोकों में जिनका यशोगान हो रहा है। तथा यथार्थ ( सत्य ) कहने वाले, लक्ष्मण के बड़े भाई राम ने आज्ञाकारी लक्ष्मण को देखकर, हे सुन्दर लक्ष्मण यह कहकर भरत शत्रुघ्न से अलग ले जाकर आशा दो ॥ ४४ ॥
प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव ।
स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥ ४५ ॥ दोहदो गर्भिणीमनोरथः। तच्छंसिनी ते प्रजावती भ्रातृजाया । 'प्रजावती भ्रातृजाया' इत्यमरः। तपोवनेषु स्पृहयालुरेव सस्पृ हेव । 'स्पृहिगृहि-' इत्यादिनालुच्प्रत्ययः । स त्वं रथी सन् । तद्यपदेशेन दोहदमिषेण नेयां नेतव्यामेनां सीतां वाल्मीकेः पदं स्थान प्रापय्य गमयित्वा । 'विभाषापः' इत्ययादेशः । त्यज ॥
अन्ययः-दोहदशंसिनी ते प्रजावती तपोवनेषु स्पृहयालु: एव, सः त्वं रथी सन् तद्व्यपदेशनेयाम् एनां वाल्मीकिपदं प्रापय्य त्यज ।
व्याख्या-दोहम् = आकर्ष ददतीति दोहदं = गभिंण्यभिलाषः तच्छंसते या सा दोहदशंसिनी ते = तव लक्ष्मणस्य प्रजा =सन्तानः अस्त्यस्याः सा प्रजावती = भ्रातृजाया "प्रजावती भ्रातृजाया" इत्यमरः। तपसां = तपस्विनां वनानि = अरण्यानि तपोवनानि तेषु तपोवनेषु = आश्रयेषु स्पृहा=अभिलाषा अस्त्यस्याः सा स्पृहयालुः एवास्ति। अतः स त्वं- आशाक लक्ष्मणः रथः = स्पन्दनोऽस्यास्तीति रथोरथिकः सन् “रथीस्पन्दनारोहः" इत्यमरः। तस्य = गर्भिणीमनोरथस्य व्यपदेशः= व्याजः, कपटः, इति तद्व्यपदेश स्तेन नेया = नेतव्या तां तद्व्यपदेशनेयाम् एनां=जानकी वलन्ते प्राणिनोऽत्र वल्मीकः “अलीकादयश्चेति" उणादिसूत्रेणनिपातनात्साधुः । वल्मीकः = उपीकानिर्मितमृत्तिकास्तूपः, उत्पत्तिकारणत्वेनास्ति अस्य स वाल्मीकिः। वाल्मीकेः = मुनेः पदं = स्थानमिति तत् वाल्मीकिपदं प्रापय्य = नयित्वा त्यज = विसृज। __समासः-दोहदस्य शंसिनी दोहदशंसिनी । तपसां वनानि तेषु तपोवनेषु । तस्य व्यपदेश स्तव्यपदेश स्तेन नेयां तद्व्यपदेशनेया तां तद्व्यपदेशनेयाम् । वाल्मीकेः पदमिति वाल्मीकिपदं तत् वाल्मीकिपदम्।
हिन्दी-गर्भिणी के मनोरथ को प्रकट करने वाली तुम्हारी भाभी तपोवन में जाने के लिये प्रबल इच्छा वाली है ही। इसलिये तुम रथ पर बैठा कर तपोवन दिखाने के बहाने सीता को वाल्मीकि ऋषि के आश्रम ले जाकर छोड़ दो ॥ ४५ ॥
स शश्रवान्मातरि भार्गवेज पितुर्नियोगात्प्रहृतं द्विषद्वत् ।
प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणां यविचारणीया ॥ ४६ ॥ पितुर्जमदग्नेनियोगाच्छासनाद्भार्गवेण जामदग्न्येन का । 'न लोक-' इत्यादिना षष्ठीप्रतिषेधः । मातरि द्विषतीव द्विषद्वत् । 'तत्र तस्येव' इति वतिप्रत्ययः । प्रहृतं प्रहारं शुश्रुवाञ्छ