________________
चतुर्दशः सर्गः
२१९ "द्विजिह्वौसर्पसूचकौ" इत्यमरः । पदा=पादेन, चरणेन स्पृशन्तं = श्लिप्यन्तं जनं शोणितस्य= रुधिरस्य कांक्षा = अभिलाषा, तया शोणितकांक्षया, रुधिरभक्षणेच्छया, इत्यर्थः। दशति = दंशति किम् ? इति प्रश्नेः । रुधिरेच्छया न दंशति किन्तु वैरनिर्यातनायैव दंशति । एवं मयापि वैरशोधनायवरावणवधः कृतः इत्यर्थः ।
समासः–रक्षसः वधः रक्षोवधः, स एव अन्तो यस्य सः। वैरस्य प्रतिमोचनमिति वैरप्रतिमोचनं तस्मै वैरप्रतिमोचनाय । न मर्षणः अमर्षणः । शोणितरय कांक्षा तया शोणितकांक्षया । द्वे जिह्वे यस्य स द्विजिह्वः ।
हिन्दी-"सीता को त्यागने पर भी" रावण के विनाश करने तक का मेरा प्रयत्न व्यर्थ नहीं जायगा। क्योंकि रावण को मारना तो बदला लेने के लिये था। देखो ! क्रोध में भरा साँप पैर से छूने वाले पुरुष को क्या खून के लोभ से काटता है ? नहीं, किन्तु बदला लेने के लिये ही उँसता है ॥ ४१ ॥
तदेष सर्गः करुणाचित्तैन मे भवद्भिः प्रतिषेधनीयः ।
यद्यर्थिता निहतवाच्यशल्यान्प्राणान्मया धारयितुं चिरं वः ॥ ४२ ॥ तत्तस्मादेष मे सों निश्चयः । 'सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु' इत्यमरः। करुणार्द्रचित्तर्भवद्भिर्न प्रतिषेधनीयः । निहतं वाच्यमेव शल्यं येषां तान् प्राणान्मया चिरं धारयितुं धारणं कारयितुं वो युष्माकमर्थितार्थित्वमिच्छा यदि । अस्तीति शेषः ॥
अन्वयः-तत् एषः मे सर्गः करुणार्द्रचित्तैः भवद्भिः न प्रतिषेधनीयः निर्हतवाच्यशल्यान् प्राणान् मया चिरं धारयितुं वः अथिता यदि अस्ति ।
व्याख्या-तत् = तस्मात् कारणात् एषः =सीतापरित्यागरूपः मेरामस्य सृज्यते इति सर्गः = निश्चयः “सर्गः स्वभाव निमोक्षनिश्चयाध्यायसृष्टिषु" इत्यमरः । करुणया = कृपया आर्द्र = क्लिन्नं चित्तं हृदयं येषां ते तैः करुणाईचित्तैः "करुणा तु कृपायां स्यात्" इति हैमः। “आर्द्र सार्द्र तुक्लिन्नम्" इत्यमरः । भवद्भिः =भरतादिभिः भ्रातृभिः न प्रतिषेधनीयः =न प्रतिषेधितव्यः, नहि निवारणीयः इत्यर्थः । निहतं = दूरीकृतम्, अपनीतं वाच्यं = निन्दा एव शल्यं = शंकुः येषां ते तान् निर्हतवाच्यशल्यान् प्राणान् = जीवनमित्यर्थः मया = रामेण चिरं = धारयितुं = धारणं कारयितुं वः= युष्माकं भ्रातृणाम् अर्थिनां भावः अर्थिता = अभिलाषा यदि = चेदस्तीतिशेषः ।
समासः-करुणया आई चित्तं येषां ते तैः करुणाईचित्तैः निहतं वाच्यमेव शल्यं येषां ते तान् निर्हतवाच्यशल्यान् ।
हिन्दी-इसलिये, यदि निन्दारूपी काँटे ( कील) को मेरे हृदय से निकालकर मुझे जीवित रखने की आपकी इच्छा हो तो, मेरे इस निश्चय ( सीता का त्याग ) को करुणापूर्ण हृदय वाले आप लोग निषेध न करें। अर्थात् निन्दा होने से मैं जीवित नहीं रहूँगा, सीता को छोड़ने पर निन्दा मिट जायगी। अतः इससे मुझे न रोके ॥ ४२ ॥