________________
२१८
रघुवंशे ननु सर्वथा साध्वी न त्याज्येत्यत्राह
अवैमि चैनामनघेति किंतु लोकापवादो बलवान्मतो मे ।
छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः ॥ ४० ॥ एनां सीतामनघा साध्वीति चामि। किंतु मे मम लोकापवादो बलवान्मतः । कुतः। हि यस्मात्प्रजाभिभूमेश्छाया प्रतिबिम्बं शुद्धिमतो निर्मलस्य शशिनो मलत्वेन कलङ्कत्वेनारोपिता। अतो लोकापवाद एव बलवानित्यर्थः ॥
अन्वयः- एनाम् अनघा इति च अवैमि, किन्तु मे लोकापवादः बलवान् मतः हि प्रजाभिः भूमेः छाया शुद्धिमतः शशिनः मलत्वेन आरोपिता ।
व्याख्या-ननु सीता सर्वथा सती साध्वीति न त्यज्यतामित्याह एनां = जानकीम् अहम् अंधते = गच्छति दानादिना अघः। न अघः यस्यां सा अनघा = अकलंका साध्वी, इति च अहं रामः अवैमि = वेद्भि किन्तुः अनघत्वेन ज्ञातत्वेऽपि मे = मम लोकेषु = जनेषु अपवादः = निन्दा इति लोकापवादः । बलवान् = प्रबल: मतः। हि = यतः प्रजाभिः = लोकैः जनैरित्यर्थः । भूमेः = पृथिव्याः छाया - कान्तिः शुद्धिरस्यास्तीति शुद्धिमान् तस्य शुद्धिमतः = निर्मलस्य शशः अस्यारतीति शशी तस्य शशिनः = चन्द्रस्य मलत्वेन = कलंकत्वेन आरोपिता = स्थापिता, वर्णितेत्यर्थः । अतः मम मते लोकापवादः प्रबल इत्यर्थः ।
समासः-न अघः यस्यां सा अनघा । लोकेषु अपवादः लोकापवादः ।
हिन्दी-सीता जी निर्दोष हैं इस बात को मैं जानता हूँ। किन्तु फिर भी मेरी दृष्टि में लोकनिन्दा बड़ी भारी है। देखो, लोगों ने पृथिवी की छाया को निर्मल चन्द्रमा का कलंक मान लिया है। अर्थात् झूटे कलंक को लोग सत्य मानते हैं। अतः लोकापवाद ही सत्य एवं प्रबल है ॥ ४० ॥
रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय ।
अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः ॥४१॥ किंच । मे रक्षोवधान्तः प्रयासो व्यथों न। किंतु स वैरप्रतिमोचनाय वैरशोधनाय । तथाहि अमर्षणोऽसहनो द्विजिह्वः सर्पः पदा पादेन स्पृशन्तं पुरुषं शोणितकाक्षया दशति किम् । किंतु वरनिर्यातनायेत्यर्थः ॥
अन्वयः-मे रक्षोवधान्तः प्रयासः व्यर्थः न च , “किन्तु" सः वैरप्रतिमोचनाय "तथाहि" अमर्षणः द्विजिह्वः पदा स्पृशन्तं शोणितकांक्षया दशतिकिम् ।
व्याख्या-रक्षसः = रावणस्य वधः = मारणम् अन्तः = अवसानं यस्य स रक्षोवधान्तः प्रकर्षेण यसनं प्रयासः = उद्योगः व्यर्थः = निरर्थकः न = नहि। किन्तु सः = प्रयासः वैरस्य = विरोधस्य प्रतिमोचनं = शोधनं तस्मै वैरप्रतिमोचनाय "वै विरोधो विद्वेषः” इत्यमरः आसीदिति शेषः । तथाहि न मर्पणः अमर्पणः = असहनशीलः द्वे जिह्वे यस्य स द्विजिह्वः = सर्पः