SearchBrowseAboutContactDonate
Page Preview
Page 1087
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः २१३ सम्पूर्ण चरितं = चरित्रं पुरे भवाः पौरा: = नागरिकाः स्तुवन्ति = प्रशंसन्ति । केवलं रावणगृहे स्थितायाः सीतायाः स्वीकरणं न प्रशंसन्ति, इत्यर्थः । समासः--निर्बन्धेन पृष्टः, निर्बन्ध पृष्टः । मानवानां देवः मानदेवस्तत्संबुद्धौ हे मानवदेव ! रक्षसः भवनमिति रक्षोभवनं तत्र उषिता, तस्याः रक्षोभवनोषितायाः। हिन्दी-"पहले तो वह गुप्तचर चुप रहा” किन्तु आग्रहपूर्वक पूछा गया तो वह बोला, हे मानव देव ! ( नररत्न ) रावण के घर में रहने वाली सीतादेवी के पुनः स्वीकार को छोड़ कर, और आप के सारे चरित्र की नागरिक प्रशंसा करते हैं। अर्थात् रावण के घर में रहने के कारण, सीता जी को स्वीकार करना अच्छा नहीं मानते। शेष सब प्रशंसनीय है ॥ ३२ ॥ कलत्रनिन्दागुरुणा किलैवमभ्याहतं कीर्तिविपर्ययेण । अयोधनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे ॥ ३३ ॥ एवं किल कलत्रनिन्दया गुरुणा दुर्वहेण कीतिविपर्ययेणापकीर्त्याभ्याहतं वैदेहिबन्धोवैदेही. वल्लभस्य । 'ड्यापोः संशाछन्दसोर्बहुलम्' इति हस्वः । कालिदास इतिवत् । हृदयम् । अयोधनेनाभितप्तं संतप्तमय इव विदद्रे विदोर्णम् । कर्तरि लिट् ॥ अन्वयः-एवं किल कलत्रनिन्दागुरुणा कीतिविपर्ययेण अभ्याहतं वैदेहिबन्धोः हृदयम् अयोधनेन अभितप्तं अय इव विदद्रे । व्याख्या-एवं = पूर्वोक्तप्रकारेण किल = मिथ्ययेव कड्यते = शिष्यते इति कलत्रं, कलं त्रायते इति वा कलत्रम् । “कलत्रं श्रोणिभार्ययोः' इत्यमरः। कलत्रस्य = पत्न्याः निन्दा = अपवादः, कलत्रनिन्दा, तया गुरुः = दुर्वहः तेन कलत्रनिन्दागुरुणा कीतें: = यशसः विपर्ययः = वैपरोत्यं तेन कीतिविपर्ययेण = दुर्यशता, अपवादेनेत्यर्थः । अथाहतं =सर्वतस्ताडितं विदेहस्य = जनकस्य राशः इयं पुत्री वैदेही, वैदेयाः सीतायाः बन्धुः = स्वजनस्तस्य वैदेहिबन्धोः =जानकीवल्लभरय हृदयं = चित्तम् , अयांसि लौहानि हन्यन्ते = ताडयन्तेऽनेनेति अयोधनं तेन अयोधनेन = लौहफूटेन अभितप्तं = सन्तप्तम् अयः = लौहम् इव = यथा विदद्रे = विदीर्णम् । समासः-कलत्रस्य निन्दा कलत्रनिन्दा तया गुरुस्तेन कलत्रनिन्दागुरुणा । कीतः विपर्ययरतेन कीर्तिविपर्ययेण । वैदेयाः बन्धुस्तस्य वैदेहिबन्धोः । हिन्दी-इस प्रकार अपनी पत्नी की झूठी निन्दा से, असह्य अपयश ( कलंक ) से आहत ( पीड़ित ) जानकीवल्लभ राम का हृदय वैसे ही फट गया है जैसे कि हथौड़े की चोट से तपा हुआ लोहा फट जाता है ॥ ३३॥ किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत संत्यजामि । इत्येकपक्षाश्रयविक्लववादासीत्स दोलाचलचित्तवृत्तिः ॥ ३४ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy