________________
२१४
रघुवंशे ___ आत्मनो निर्वादोऽपवाद एव कथा ताम् । किमापेक्षे । उत अदोषां साध्वी जायां संत्यजामि । उभयत्रापि प्रश्ने लट् । इत्येकपक्षाश्रयेऽन्यतरपक्षपरिग्रहे विक्लवत्वादपरिच्छेत्तृत्वात्स रामो दोलेव चला चित्तवृत्तिर्यस्य स टासीत् ॥
अन्वयः--आत्मनिर्वादकथां किम् उपेक्षे, उत अदोषां जायाम् सन्त्यजामि, इति एकपक्षाश्रयविक्लवत्वात् सः दोलाचलचित्तवृतिः आसीत् ।
व्याख्या-आत्मनः = स्वस्य निर्वादः = निन्दा एव कथा = वार्ता, इति आत्मनिर्वादकथाताम् आत्मनिर्वादकथां किमितिप्रश्ने, उपेक्षे = उपेक्षांकुचे उतः = अथवा नदोषः यस्यां सा अदोषा ताम् अदोषां = सती साध्वीमित्यर्थः । जायतेऽस्यां सा जाया तां जायां =भायां सन्त्यजामि = परित्यजामि, इति = एवम् एकश्वासी पक्षः = अन्यतरवर्गः, तस्य आश्रयः = परिग्रहः स्वीकरणं तस्मिन् विक्लवः = विह्वलः, इति एकपक्षाश्रयविक्लवः, तस्य भावस्तत्त्वं तस्मात् एकपक्षाश्रयविक्लवत्वात्, निन्दाया उपेक्षणे सीतापरित्यागे वा किंकर्तव्यविमूढत्वादित्यर्थः सः रामः दोलयति, दोल्यते वा दोला - प्रङ्खा इव चला = चञ्चला चित्तस्य = मनसः वृत्तिः = व्यापारो यस्य स दोलाचलचित्त वृत्तिः “दोला प्रेतादिका स्त्रिया"गित्यमरः । आसीत् = अभूत् ।
समासः-आत्मनः निर्वादः आत्मनिर्वादः, आत्मनिर्बाद एव कथाताम् आत्मनिर्वादकथाम् । न दोषः यस्यां सा ताम् अदोषाम् । एक श्चासौ पक्षः एकपक्षः, एकपक्षस्य आश्रयः, तस्मिन् विक्लवः, इति एकपक्षाश्रयविक्लवस्तस्य भाबस्तत्त्वं तस्मात् एकपक्षाश्रयविक्लवत्वात् । दोलाइव चला चित्तस्य वृत्तिर्यस्य स दोलाचलाचित्तवृत्तिः ।
हिन्दी-अपनी निन्दा रूपी कथा को अनसुनी कर जाऊँ । अथवा निर्दोष सती पत्नी सीता को सदा के लिये त्याग दूँ, इस प्रकार एक पक्ष ( बात ) के मानने में असमर्थ होने के कारण राम उसी प्रकार डावाँडोल चित्त वाले हो गये, जैसे कि पलना या हिण्डोला चंचल रहता है ॥ ३४ ॥
निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्टमैच्छत् ।
अपि स्वदेहाकिमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः ॥ ३५ ॥ किंच । वाच्यमपवादम् , नास्त्यन्येन त्यागातिरिक्तोपायेन निवृत्तिर्यस्य तदनन्यनिवृत्ति निश्चित्य पत्न्यास्त्यागेन परिमाष्टुं परिहर्तुमैच्छत् । तथाहि । यशोधनानां पुंसां स्वदेहादपि यशो गरीयो गुरुतरम् । इन्द्रियार्थास्रक्चन्द नवनितादेरिन्द्रियविषयाद्रीय इति किमुत वक्तव्यम् । 'पञ्चमी विभक्ते' इत्युभयत्रापि पञ्चमी । सीता चेन्द्रियार्थ एव ॥
अन्वयः-वाच्यम् अनन्यवृत्ति निश्चित्य, पत्न्याः त्यागेन परिमाष्टुम् ऐच्छत् । हि यशोधनानां स्वदेहात् अपि यशः गरीयः इन्द्रियार्थात् किम् उत।
व्याख्या-उच्यते इति रात वाच्यम् = निन्दा न विद्यतेऽन्येन = त्यागातिरिक्तन उपायेन निर्वृत्तिः = परिमार्जनं यस्य तन् अनन्यनिवृत्ति, इति निश्चित्य =सर्वथामत्वा पत्न्याः = सीतायाः