________________
रघुवंशे अन्वयः-वदतां पुरोगः विशुद्धवृत्तः साधिराजोरुभजः विजितारिभद्रः सः स्ववृत्तम् उद्दिश्य भद्रम् अपसर्प किंवदन्ती पप्रच्छ ।
व्याख्या--वदन्तीति बदन्तः तेषां वदतां = वक्तृणां पुरः गच्छतोति पुरोगः = श्रेष्ठः, विशेषेण शुद्धं = निर्मलं वृत्तं = चरित्रं यस्य स विशुद्धवृत्तः, सर्पाणां= भुजंगानाम् अधिराजः = शेषः इति सोधिराजः, तद्वत् उरू = विशालौ भुजी = नाहू यस्य स साधिराजोरुभुजः साधिराज इव उरू भुजौ च यस्य स इति वा ऊरुः जवायां ऊरुः विशाल: विशाले च । विजितः = पराजितः अरिषु - शत्रुघु भद्रः=श्रेष्ठः, रावण इत्यर्थः, येन स विजितारिभद्रः सः रामः स्वस्य = निजस्य वृत्त = चरित्रं स्ववृत्तं तत् उद्दिश्य = लक्षयित्वा भद्रं भद्रनामानम् अपसर्पति = गूढं चरतीति अपसर्पस्तम् अपसर्प = गृप्तपुरुषं किंवदती = जनश्रुतिं प्रपच्छ = पृष्टवान् । “किंवदन्ती" जनश्रुतिः "प्रणिधिरपसर्पश्चरः स्पशः” इत्यनरी :
समासः-विशुद्धं वृत्तं यस्य स विशुद्धवृत्तः। सर्पाणामधिराजः साधिराजः, साधिराज इव ऊरू भुजौ यस्य स सर्वाधिराजोरुभुजः । अरिषु भद्रः अरिभद्रः जितः अरिभद्रः येन स जितारिभद्रः । कुत्सिता वदन्ती किंवदन्ती तां किंवदन्तीम् ।
हिन्दी-“अयोध्या की छटा देखकर" वक्ताओं में श्रेष्ठ, विशुद्ध चरित्र, अर्थात् सदाचारी, तथा शेषनाग के समान विशाल ( बड़ी बड़ी ) भुजा वाले, एवं प्रबल शत्रु को जीतने वाले राम ने अपने भद्रमुख नामक गुप्तचर से अपने संबन्ध में जनता के द्वारा की गई निन्दा भी पूछी । अर्थात् क्या प्रजा मेरी कुछ निन्दा भी करती है---यह पूछा। __विशेष--इस पद्य में 'साधिराजोरू' में ऊरू, = जॉध तथा उरु = विशाल, दोनों अर्थ होते हैं किन्तु लम्बी भुजा तो ठीक लगती है । लम्बी जंघा ठीक नहीं है अब विशाल भुजा ही उचित है ॥ ३१ ॥
निर्बन्धपृष्टः स जगाद सर्व स्तुवन्ति पौराश्चरितं त्वदीयम् ।
अन्यत्र रक्षोभवनोषितायाः पारग्रहान्मानवदेव देव्याः ॥ ३२ ॥ निबन्धेनाग्रहेण पृष्टः सोऽपसों जगाद । किमिति। हे मानवदेव, रक्षोभवन उषिताया देव्याः सीतायाः परिग्रहात्स्वीकारादन्यत्रेतरांशे । तं वर्जयित्वेत्यर्थः । त्वदीयं सर्वचरितं पौराः स्तुवन्ति ॥
अन्वयः-निर्बन्धपृष्टः सः जगाद, हे मानव देव ! रक्षोभवनोषितायाः देव्याः परिग्रहात् अन्यत्र त्वदीयं सर्वं चरितं पौराः स्तुवन्ति । ___ व्याख्या-निर्बन्धेन = परमाग्रहेण पृष्टः = जिशासितः, इति निर्बन्धपृष्टः सः = गुप्तचरः भद्रः जगाद = उक्तवान् मनोः इमे मानवाः मानवानां = मनुष्याणां देवः =राजा तत्संबुद्धौ हे मानवदेव ! “राजा भट्टारको देवः” इत्यमरः । रक्षसः = रावणस्य भवनं = गृहं तस्मिन् उषिता = कृतनिवासा, तस्याः रक्षोभवनोषितायाः देव्याः सीतायाः परिग्रहात् = स्वीकारात् अन्यत्र = अन्यस्मिन् विषये सीतायाः स्वीकरणं विहायेत्यर्थः । तव इदं त्वदीयं = भवदीयं सर्व =