________________
१४ चतुर्दशः सर्गः
२०९ हिन्दी-इसके पश्चात् चमकते सुन्दर नेत्र वाले और पके सरपत के समान पीले, अतरव विना कहे ही गर्भ के लक्षण (चिह्न ) को प्रकट करने वाले मुख से सीता जी अपने पति राम को आनन्दित करने वाली हो गई थीं। अर्थात् आँखों की चमक तथा मुख का पीलापन देखकर राम, सीता को गर्भवती जानकर बड़े प्रसन्न हो गए ॥ २६ ॥
तामङ्कमारोप्य कृशाङ्गयष्टिं वर्णान्तराकान्तपयोधराग्राम् ।
विलज्जमानां रहसि प्रतीतः पप्रच्छ रामा रमणोऽमिलाषम् ॥ २७ ॥ प्रतीतो गर्भशानवान् । रमयतीति रमणः । प्रियां कृशाङ्गयष्टिं वर्णान्तरेण नीलिम्नाक्रान्तपयोधरायां विलज्जमानां तां रामां रहस्यङ्कमारोप्याभिलाषं मनोरथं पप्रच्छ । एतच्च-'दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात्' इति शास्त्रात् । न तु लौल्यादित्यनुसंधेयम् ॥
अन्वयः-प्रतीतः रमणः प्रियां कृशांगयष्टिं वर्णान्तराकान्तपयोधरायां विलज्जमानां तां रामाम् रहसि अङ्कम् आरोग्य अभिलाष पप्रच्छ ।
व्याख्या–प्रत्येकमगात्, प्रतीयते स्म इति प्रतीतः, गत्यर्थात् कर्तरि कर्मणि वा क्तः । गर्भचिह्नशानवान् रमयतीति रमणः पतिः प्रियां = वल्लभां कृशा = दुर्बला अंगयष्टिः = शरीरयष्टिः यस्याः सा तां कृशांगयष्टिम् , अन्यः वर्णः वर्णान्तरम् , वर्णान्तरेण =नोलिम्ना आक्रान्तं = व्याप्तं पयोधरयोः= कुचयोः अग्रं =चूचुकं यस्याः सा तां वर्णान्तराकान्तपयोधराग्राम् । विलज्जते या सा विलज्जमाना तां विलज्जमानां तां रमयति, रम्यतेऽस्यां वा सा रामा तां रामां = रमणीं सीताम् रह्यते इति रहः, रमन्तेऽत्रेति वा रहः “देशेऽह च" इत्य मुन् होऽन्तादेशश्च । तस्मिन् रहसि = एकान्ते अंक = क्रोडम् आरोप्य =संस्थाप्य अभिलाषं = मनोरयं, तदिच्छामित्यर्थः पप्रच्छ = पृच्छति स्म ।
समासः-अंगस्य यष्टिः, अंगमेव यष्टिरिति वा अंगयष्टिः। कृशा अंगयष्टिः यस्याः सा कृशांगयष्टिः ताम् कृशांगयष्टिम् । पयसां धरौ पयोधरौ, अन्यः वर्णः वर्णान्तरम् , वर्णान्तरेण आक्रान्तं पयोधरयोः अग्रं यस्याः सा तां वर्णान्तराक्रान्तपयोधराग्राम् ।।
हिन्दी-सीता जी गर्भवती हैं। ऐसा जानकर राम ने दुर्बल शरीर वाली, तथा श्याम वर्ण से युक्त स्तन के अग्रभाग ( चूचुक) वाली, लज्जावती अपनी प्रिया उस आनन्ददायिनी सीता को एकान्त स्थान में गोद में बैठाकर सीता के मनोरथों को पूछते थे । अर्थात् तुम्हारी क्या इच्छा है—ऐसा बराबर पूछते थे ॥ २७ ॥
सा दष्टनीवारबलोनि हिंस्त्रैः संबद्धवैखानसकन्यकानि ।
इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ॥ २८ ॥ सा सीता । हिंस्रैर्दष्टा नीवारा एव बलयो येषु तानि । तिर्यग्भिक्षुकादिदानं बलिः। संबद्धाः कृतसंबन्धाः कृतसख्या वैखानसानां कन्यका येषु तानि कुशवन्ति भागीरथोतोरतपोवनानि भूयः , पुनरपि गन्तुमियेषाभिललाष ।