________________
२०८
रघुवंशे
अन्वयः - चित्रवत्सु सद्मसु यथाप्रार्थितम् इन्द्रियार्थान् आसेदुषोः तयोः दण्डकेषु प्राप्तानि दुःखानि अपि संचिन्त्यमानानि सुखानि अभूवन् ।
व्याख्या - चित्रयन्तीति चित्राणि = आलेख्यानि सन्ति येषु तानि चित्रत्रन्ति तेषु चित्रवत्सु = वनवासवृत्तान्तचित्रितेषु सोदन्ति येषु तानि सद्मानि तेषु सद्मसु = मन्दिरेषु “सद्म स्यान्मन्दिरे नीरे" इति मेदिनी । प्रार्थितमनतिक्रम्य यथाप्रार्थितं = यथाभिलाषम् इन्द्रस्य = आत्मनः लिङ्गानि इन्द्रियाणि = चक्षुरादीनि । अर्थ्यन्ते इति अर्थाः = शब्दादिविषयाः । इन्द्रियाणाम् अर्थाः इन्द्रियार्थास्तान् इन्द्रियार्थान् आसेदुषोः = प्राप्तवतोः तयोः = सीतारामयोः दण्डकेषु = जनस्थानेषु, दण्डकवनेष्वित्यर्थः । प्राप्तानि = अनुभूतानि दुःखानि = कष्टानि, सीतावियोगविलापान्वेषणादीनि अपिः = समुच्चये संचिन्त्यमानानि = स्मर्यमाणानि चित्रदर्शनेनेत्यर्थः । सुखानि = सुखकराणि अभूवन् = जातानि । तदानीन्तनानि दुःखानि इदानीं स्मर्यमाणानि सुखकराणि जातानीत्यर्थः ।
समासः--इन्द्रियाणाम् अर्थाः इन्द्रियार्थास्तान् इन्द्रियार्थान् प्रार्थितमनतिक्रम्य यथा
प्रार्थितम् ।
हिन्दी - व - वनवास के समय के चित्रों से सजे हुए भवनों में शब्दादि विषयों को प्राप्त करने वाले ( इच्छानुसार विलास करने राम को दण्डक वन में मिले दुःख भी, "इस समय " ( चित्र सुखकर हो गये थे ॥ २५ ॥
"
अपनी इच्छानुसार इन्द्रियों के वाले ) उन दोनों सीता और देखने से ) स्मरण करने पर
अथाधिकस्निग्ध विलोचनेन मुखेन सीता शरपाण्डुरेण । श्रानन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोहदेन ।। २६ ।।
अथ सीताधिकस्निग्धविलोचनेनात्यन्तमसृणलोचनेन शरवत्तृणविशेषवत्पाण्डुरेणात एवानक्षरमवाग्व्यापारं यथा भवति तथा व्यञ्जितं दोहदं गर्भो येन तेन मुखेन परिणेतुः पत्युरनिन्दयित्र्यासीत् ॥ अन्वयः - अथ सीता अधिकस्निग्धविलोचनेन शरपाण्डुरेण अनक्षरव्यज्जितदोहन मुखेन परिणेतुः आनन्दयित्री आसीत् ।
व्याख्या - अथ = अनन्तरम् सीता = जानकी, अधिकम् = अत्यन्तं स्निग्धे = मसृणे विलो - चने =नेत्रे यस्मिन् तत् तेन अधिकस्निग्धविलोचनेन शरवत् = काशवत् पाण्डुरं = पाण्डु तेन शरपाण्डुरेण पीतवर्णवता । अतएव न अक्षरम् अकारादिवर्णः यस्मिन् कर्मणि तत् अनक्षरं वाग्व्यवहारहीनं यथा स्यात्तथा व्यञ्जितं = प्रकटितं दोहदं गर्भः येन तत्तेन अनक्षरव्यञ्जितदोहदेन, अकथनेनैव प्रकाशितगर्भलक्षणेनेत्यर्थः मुखेन = आननेन परिणेतुः = पत्युः, रामस्य आनन्दं करोति आनन्दयति । आनन्दयतीति आनन्दयित्री सुखकर्त्री आसीत् अभूत् ।
समासः - अधिकं स्निग्धे विलोचने यस्मिन् तत् तेन अधिकस्निग्धविलोचनेन । शरवत् पाण्डुरमिति शरपाण्डुरं तेन शरपाण्डुरेण । न अक्षरं यस्मिन् कर्मणि तत् अनक्षरम्, अनक्षरं यथा स्यात्तथा व्यन्जितं दोहदं येन तत् तेन अनक्षरव्यञ्जितदोहेदन |