________________
२१०
रघुवंशे
अन्वयः -- सा हिंस्रैः दष्टनीवारबलीनि संबद्धवैखानसकन्यकानि कुशवन्ति भागीरथीतीरतपोत्रनानि भूयः गन्तुम् इयेष ।
.
व्याख्या - सा = सीता हिंस्रैः = धातुकैः सिंहादिभिः दष्टाः = भक्षिताः नीवाराः = तृणधान्यानि एव बलयः = उपहारा: येषु तानि दष्टनीवारबलीनि, विखनसं = ब्रह्माणं वेत्ति तपसा इति वैखानसः : :- वानप्रस्थः संबद्धाः = संपादितसंबन्धाः वैखानसानां कन्यकाः = कुमार्यः येषु तानि, संबद्धवैखानसकन्यकानि, कुशाः = दर्भाः सन्ति येषु तानि कुशवन्ति, कुशनिर्मित पर्णशालावन्तीत्यर्थः । भं=ज्योतिष्कमण्डलं गीः = वाङ्मयं तत्र रथः इन्द्रियाणि रथ इवास्य स भगीरथः, भगीरथस्य इयं भागीरथी । भागीरथ्याः = गंगायाः तीरं = तटं तत्र यानि तपसः वनानि अरण्यानि, आश्रमा इत्यर्थः, इति भागीरथीतीरतपोवनानि तानि भूयः = पुनः गन्तुं = यातुम् |इयेष = इच्छतिस्म ।
=
समासः - नीवारा एव बलयः नीवारबलयः, दष्टाः नीवारबलयः येषु तानि दष्टनीवारबलीनि तानि । संबद्धाः वैखानसानां कन्यकाः येषु तानि संबद्धवैखानसकन्यकानि तानि । भागीरथ्याः तीरं भागीरथीतीरं तत्र यानि तपोवनानि तानि भागीरथीतीरतपोवनानि ।
हिन्दी - - " रामचन्द्रजी के पूछने पर " सीता जी ने गंगा जी के तीर पर बसे उन तपोवनों में फिर से एक बार जाने की इच्छा की जिनमें सिंहादि हिंसक प्राणी, पूजा बलि के नीवार ( जंगली चावल ) खाते हैं । अर्थात् मांस न खाकर घास खाते हैं, और जिनमें सीता जो को सखी बनी हुई वानप्रस्थों की कन्याएँ रहती हैं। और जिनमें कुशा को पर्णकुटियाँ बनी हैं ॥ २८ ॥
तस्यै प्रतिश्रुत्य रघुप्रवीरस्तदीप्सितं पार्श्वचरानुयातः । आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहमारुरोह ॥ २९ ॥
रघुप्रवीरो रामस्तस्यै सीतायै तत्पूर्वोक्तमीप्सितं मनोरथं प्रतिश्रुत्य 'प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता' इति चतुर्थी । पार्श्वचरैस्तत्कालोचितै रनुयातः सन्मुदितां तामयोध्यामालोकयिष्यन् । अ लेढीत्यभ्रंलिहमभ्रंकर्षं प्रासादमारुरोह । 'वहाभ्रे लिहः' इति खश्प्रत्ययः । 'अरुद्विषदजन्तस्य मुम्' इति मुमागमः ॥
अन्वयः - रघुप्रवीरः तस्यै तत् ईप्सितं प्रतिश्रुत्य पार्श्वचरानुयातः सन् मुदिताम् अयोध्याम् आलोकयिष्यन् अभ्रंलिहं प्रासादम् आरुरोह ।
व्याख्या - प्रकृष्टः वीरः प्रवीरः, रघुषु = रघुवंशीयेषु प्रवीरः = उत्तमः, श्रेष्ठः यः स रघुप्रवीरः = रामचन्द्रः तस्यै = सीतायै तत् = - पूर्वोक्तं तपोवनगमनेच्छारूपम्, ईप्सितं = मनोरथं प्रतिश्रुत्य = प्रतिज्ञाय, स्वीकृत्येत्यर्थः । पार्श्वे चरन्तीति पार्श्वचरास्तैः पार्श्वचरैः = तत्कालोचितसेवकैः अनुयातः = अनुगतः सन् मुदितां = प्रसन्नां तां = प्रसिद्धाम् अयोध्यां = साकेतम् आलोकयिष्यन् = समन्तात्पश्यन् ( द्रष्टुं ) अभ्रम् = व्योम लेढीति अभ्रंलिहम् = गगनस्पर्शिनं प्रासादं = राजभवनम् आरुरोह = आरूढवान् राजभवनोपरि गत इत्यर्थः ।