________________
१७६
रघुवंशे
कृतानि = अतीव पवित्राणि कृतानि जलानि योद्धुम् अशक्या अयोध्या =साकेतं ताम् अयोध्या, धीयतेऽस्यामिति धानी, राज्ञां धानी = नगरी, राजधानी तां राजधानीम् अनु =समीपे वहति = प्रापयति।
समासः-तीरे निखाताः यूपाः यस्याः सा तीर निखातयूपा। राशां धानी राजधानी तां राजधानीम् । तुरंगमेधेषु अवभृथाय अवतीर्णास्तैः तुरंगमेधावभृथावतीर्णैः । अपुण्यतराणि पुण्यतराणि कृतानि इति पुण्यतरीकृतानि ।
हिन्दी-जिसके किनारों पर यज्ञों के खम्भे गड़े हैं वह सरयू नदो, अयोध्या नामक राजधानी के पास से ( सटकर ) बह रही है, जिसके जलों को अश्वमेधयो की समाप्ति पर यशान्त स्नान करने वाले इक्ष्वाकु के वंश के मेरे पूर्वज राजाओं ने अत्यन्त पवित्र किया है ॥ ६१॥
यां सैकतोत्सङ्गमुखोचितानां प्राज्यैः पयोमिः परिववर्धितानाम् ।
सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम् ॥ ६२ ॥ यां सरयूं मे मानसं कर्तृ सैकतं पुलिनम् तदेवोत्सङ्गः तत्र यत्सुखं तत्रोचितानां प्राज्यैः प्रभूतैः पयोभिरम्बुभिः क्षीरैश्च । 'पयः क्षीरं पयोऽम्बु च' इत्यमरः, परिवर्धितानां पुष्टानामुत्तरकोसलानामुत्तरकोसलेश्वराणां सामान्यधात्री साधारणमातरमिव संभावयति । 'धात्री जनन्यामलकी वसुमत्युपमातृषु' इति विश्वः ॥
अन्वयः-यां मे मानसं सैकतोत्संगसुखोचितानाम् प्राज्यैः पयोभिः परिवर्धितानाम् उत्तरकोसलानां सामान्यधात्रीम् इव सम्भावयति ।
ग्याख्या-यां =सरयूं मे =मम मानसं = मनः। कर्तृपदमिदम् । सिकताः सन्ति यस्य तत् सैकतं =सिकतामयं पुलिनम् एव उत्संगः = अंकः तस्मिन् यत् सुखम् = आनन्दस्तत्र उचिताः = अभ्यस्तास्तेषां सैकतोत्संगसुखोचितानाम् प्राज्यैः = प्रचुरैः अत्यधिकरित्यर्थः । पयोभिः = जलेः परितः वर्धिताः सर्वथा पोषितास्तेषां परिवधितानाम् उत्तरे स्थिताः कोसलाः उत्तरकोसलास्तेषाम् उत्तरकोसलानाम् = उत्तरकोसलेश्वराणां मानेन सह समानं, समानस्य भावः सामान्यम् , सामान्या = सर्वेषामेकरूपा चासौ धात्री = जननी चेति सामान्यधात्री तां सामान्यधात्रीम् इव = यथा सम्भावयति सम्मानयति । “धात्री जनन्यामलकोवसुमत्युपमातूषु" मेदिनी।
समासः-सैकतमेव उत्संगः सैकतोत्संगः, सैकतोत्संगे यत् सुखं तस्मिन् उचितास्तेषां सैकतोत्संगसुखोचितानाम् । परितः वर्धितास्तेषां परिवर्धितानाम् । उत्तरे स्थिताः कोसलाः उत्तरकोसलास्तेषाम् उत्तरकोसलानाम् । सामान्या चासौ धात्री सामान्यधात्री तां सामान्यधात्रीम् ।
हिन्दी-मेरा मन इस नदी का बड़ा सम्मान करता है। क्योंकि इसके बालुकामय किनारे की गोद में खेलने के अभ्यासी तथा इसके मधुर जलों को पीकर परिपुष्ट हुए, उत्तर कोसल के ( मेरे पूर्वजों की ) राजाओं की यह साधारण मां है। अर्थात् सबकी एक समान धाय है ।। ६२ ॥