________________
त्रयोदशः सर्गः
१७५
अन्वयः—पुण्यजनांगनानां पयोधरैः निर्विष्टहेमाम्बुजरेणु ब्राह्मं सरः यस्याः बुद्धेः अव्यक्तम् इव कारणम् आप्तवाच: उदाहरन्ति ।
व्याख्या - पुण्यं = सुकृतम् आश्रिताः जनाः, पुण्यजनाः । पुण्यजनानां = यक्षाणाम् अंगनाः = स्त्रियस्तासां पुण्यजनांगनानां धरन्ती धराः पयसां = दुग्धानां धराः पयोधरास्तैः पयोधरैः =स्तनैः निर्विष्टः = उपभुक्तः हेम्नः = सुवर्णस्य अम्बुजं = कमलं तस्य रेणुः = धूलिः यस्य तत् निर्विष्टहेमाम्बुजरेणु तस्मिन् सरसि यक्षांगनाः जलक्रीडां कुर्वन्तीति व्यज्यते । ब्रह्मणः इदं ब्राह्मं सरः = ब्रह्मसंबन्धि मानससरोवराख्यं यस्याः = सरखाः नद्याः, बुद्धे : = महत्तत्वस्य न व्यज्यते स्म इति अव्यक्तम् = प्रकृतिः इत्र = यथा कारणम् = उत्पत्तिस्थानम् आप्ता = विश्वस्ता वाक् = शब्दः, वाणी येषां ते आप्तवाचः = वेदाः, मुनयो वा । उदाहरन्ति = कथयन्ति ।
समासः - पुण्यमाश्रिताः जनाः पुण्यजनास्तेषाम् अंगना इति तासां पुण्यजनांगनानाम् । पयसः धराः पयोधरास्तैः पयोधरैः । हेम्नः अम्बुजं हेमाम्बुजं तस्य रेणुरिति हेमाम्बुजरेणुः, निर्विष्टः हेमाम्बुजरेणुः यस्य तत् निर्विष्टहेमाम्बुजरेणु । आप्ता वाक् येषां ते आप्तवाचः । आप्तस्य वाचः आप्तवाचः, इति वा । न व्यक्तमिति अव्यक्तम् ।
हिन्दी - यक्षों की स्त्रियों के स्तनों ने जिस सरोवर के सुनहरे कमलों के पराग ( धूलि ) का उपभोग किया है । उसी ब्रह्मा जी के मानसरोवर को सत्यवक्ता, ऋषिलोग, सरयू नदी का कारण वैसे ही बताते हैं जैसे बुद्धि का कारण प्रधान को बताते हैं । अर्थात् इसी सरोवर से सरयू नदी निकलती है ॥ ६० ॥
जलानि या तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम् । तुरंगमेधावभृथावतीर्णैरिक्ष्वाकुमिः पुण्यतरीकृतानि ॥ ६१ ॥
यूपः संस्कृतः पशुबन्धनाहों दारुविशेषः । तीरनिखातयूपा या सरयूस्तुरंगमेधा अश्वमेधास्तेष्ववभृथार्थमेवावतीर्णैरवरूढैरिक्ष्वाकुभिरिक्ष्वाकुगोत्रापत्यैर्नः पूर्वैः । तद्राजत्वादणो लुक् । पुण्यतरीकृतान्यतिशयेन पुण्यानि कृतानि जलान्ययोध्यां राजधानीं नगरीमनु समीपे तया लक्षितयेत्यर्थः । अनुशब्दस्य 'लक्षणेत्थंभूत - ' इत्यादिना कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । वहति प्रापयति ॥
अन्वयः - तीरनिखातयूपा या तुरंगमेधावभृथावतीर्णैः इक्ष्वाकुभिः पुण्यतरीकृतानि जलानि अयोध्यां राजधानीम् अनुवहति ।
व्याख्या - यूयते = युज्यतेऽस्मिन्निति यूपः = संस्कृतः पशुबन्धनयोग्यः यागस्तम्भः । तीरे = तटे निखाताः = स्थापिताः यूपाः = यागस्तम्भाः, जयस्तम्भाश्च यस्याः सा तीरनिखातयूपा सरयूः = नदी तुरेण त्वरया वा गच्छन्तीति तुरंगाः । तुरंगाः = अश्वाः मेध्यन्ते = हिंस्यन्ते यत्र ते तुरंगमेधाः = अश्वमेधयज्ञास्तेषु अवभृथाय = यज्ञान्तस्नानाय अवतीर्णाः = अवरूढास्तैः तुरंगमेधावभृथावतीर्णैः, इक्षुमाकरोति, इक्षु इति शब्दमकतीति वा इक्ष्वाकुः = वैवस्वतमनुपुत्रः तस्य गोत्रे जाताः इक्ष्वाकत्रस्तै: इवाकुभिः = इक्ष्वाकुवंशोत्पन्नैः अस्मत्पूर्वजैः, अतिशयेन पुण्यानि, इति पुण्यतराणि न पुण्यतराणीति अपुण्यतराणि तानि पुण्यतराणि कृतानीति पुण्यतरी