________________
त्रयोदशः सर्गः
सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर्वियुक्ता । दूरे वसन्तं शिशिरानिलैम तरंगहस्तैरुपगूहतीव ॥ ६३ ॥
१२
१७७
मदीया जननी कौसल्येव मान्येन पूज्येन तेन राज्ञा दशरथेन वियुक्ता सेयं सरयूर्दूरे वसन्तम् । प्रोष्यागच्छन्तमित्यर्थः । मां पुत्रभूतं शिशिरानिलैस्त रंगैरेव हस्तैरुपगूहतीवालिङ्गतीव ॥
अन्वयः - मदीया जननी इव मान्येन तेन राज्ञा वियुक्ता सा इयं सरयू: दूरे वसन्तं मां शिशिरानिलैः तरंगहस्तैः उपगूहति इव ।
व्याख्या - मम = रामस्य इयं मदीया जनयतोति जननी माता कौसल्या इत्र = यथा मान्येन = पूजनीयेन तेन = प्रसिद्धेन राज्ञा दशरथेन वियुक्ता = त्यक्ता सा = प्रसिद्धा पूज्या इय = दृश्यमाना सरयूः = नदी दूरे = विप्रकृष्टे वसन्तं = निवसन्तं वनवासात् प्रत्यागच्छन्तमित्यर्थः मां =पुत्रभूतं रामचन्द्रं शिशिरः = शोतलः अनिलः = वायुः येषां ते तैः शिशिरानिलैः तरंगाः = ऊर्मयः एव हस्ताः = कराः तैः तरंगहस्तैः उपगूहति = आलिंगति, इव = यथा ।
,
समासः–शिशिरः अनिलः येयां ते शिशिरानिलास्तैः शिशिरानिलैः । तरंगा एव हस्ताः, इति तरंगहस्तास्तैः तरंगहस्तैः ।
हिन्दी - माननीय महाराजा दशरथ से बिछुड़ी हुई, मेरो माता कौसल्या के समान यह सरयू नदी, दूर वनवास से लौटे हुए मुझे ठण्डी वायु वाले अपने तरंगरूपी हाथों से मानों आलिंगन कर रही है ॥ ६३ ॥
विरक्त संध्याकपिशं पुरस्ताद्यतो रजः पार्थिवमुज्जिहीते ।
शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥ ६४ ॥
विरक्तातिरक्ता या संध्या तद्वत्कपिशं ताम्रवर्णम् । पृथिव्या इदं पार्थिवम् । रजो धूलि : पुरस्तादग्रे यतो यस्मात्कारणादुज्जिहीत उद्गच्छति । तस्मात् । हनुरस्यास्तीति हनूमान् । 'शरादीनां च' इति दीर्घः । तेन कथिता प्रवृत्तिरस्मदागमनवार्ता यस्मै स भरतः ससैन्यः सन्मां प्रत्युद्गत इति शङ्के तर्कयामि । 'शङ्का भयत्रितर्कयो:' इति शब्दार्णवे । अत्र यत्तदो नित्यसंबन्धात्त
च्छब्दलाभः ॥
अन्वय – विरक्तसन्ध्याकविशं पार्थिवं रजः पुरस्तात् यतः उज्जिहीते, "ततः” हनूमत्कथितप्रवृत्तिः भरतः ससैन्यः सन् मां प्रत्युद्गतः, इति अहं शंके ।
=
व्याख्या - कपिः = वर्णविशेषोऽस्यातीति कपिशः । कपिः = मर्कटः, तद्वर्णत्वात् वा कपिशः । सम्यग्ध्यायन्ति परमात्मानं यस्यां सा सन्ध्या विशेषेण रक्ता = लोहिता या संध्या: संध्याकालः तद्वत् कपिशं = ताम्रवर्णमिति विरक्त सन्ध्याकपिशं पृथिव्याः इदं पार्थिवं = भौमं रजः = धूलिः पुरस्तात् = अग्रे यतः = यस्मात्कारणात् उज्जिहीते = उद्गच्छति, आकाशं व्याप्नोतीत्यर्थः । ततः कारणात् हन्ति कठिनद्रव्यादिक मिति हनुः । हनुरस्यास्तीति हनूमान् । हनूमता - पवनात्मजेन कथिता = निवेदिता प्रवृत्तिः = रामागमनवृत्तान्तः यस्मै स हनूमत्कथित -