________________
रघुवंशे
=
घ्नन्तीति फलानुबन्धिनः = फलग्राहिणः वृक्षाः = पादपाः यस्मिन् तत् फलबन्धिवृक्षं, वनेऽस्मिन् पुष्पोद्गममनपेक्ष्यैव फलवन्तो वृक्षाः सन्तीत्यर्थः । अत एव भवत्यनेन भावः, प्रकृष्टो भावः प्रभावः उद्गतम् अग्रं यस्य सः उदयः, अतिशयेन उदग्रः इति उदग्रतरः । आविष्कृतः : प्रकटीकृतः उदग्रतरः = प्रवृद्धः प्रभावः = महिमा, सामर्थ्यं यत्र तत् आविष्कृतोदग्रतर प्रभावम् । अत्ति स्म एकगण्डूषेणैव सर्वमेव गंगाजलं पीतवान् यः सः अत्रिस्तस्य अत्रे : = ब्रह्मणो मानसपुत्रस्य मुनेः तपसः = तपस्यायाः साध्यते कर्म निष्पाद्यतेऽनेति साधनम् = कारणम् वनं = काननम् एतत् = पुरः । अस्तीति शेषः ।
१६८
समास: - निग्रहात् त्रास येषां ते निग्रह्नासाः न निग्रहवासाः अनिग्रहत्रासाः, अनिग्रहत्रासाः विनीताः सत्त्वाः यरिमन् तत् अनिग्रहासविनीतसत्त्वम् । पुष्पं च तत् लिंगमिति पुष्पलिंगम्, न पुष्प लिगमिति अपुप्पलिंगम्, तस्मात् अपुप्पलिंगात् । फलबन्धिनः वृक्षाः यस्मिन् तत् फलबन्धिवृक्षम् | आविष्कृतः उदग्रतरः प्रभावः यस्य तत् आविष्कृतोदग्रतरप्रभावम् । तपसः साधनमिति तपः साधनम् ।
हिन्दी - मारपीट या धमकाए विना ही सिंहादि हिंसक जीव भी जहाँ के बड़े सीधे हैं तथा विना फूलों के ही फलों से लदे वृक्षों वाला, इसीलिये अपने उत्तम प्रभाव को प्रगट करने वाला अत्रिमहर्षि की तपस्या का साधन यह वन है ॥ ५० ॥
अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोदधृत हेमपद्माम् ।
प्रवर्तयामास किलानसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥ ५१ ॥
अत्र वनेऽनसूयात्रिपत्नी । सप्त च ते ऋषयश्च सप्तर्षयः । 'दिक्संख्ये संज्ञायाम्' इति तत्पुरुषसमासः । तेषां हस्तैरुद्घृतानि हेमपद्मानि यस्यास्तां त्र्यम्बकमौलिमाला हरशिरः स्रजं त्रिस्रोतसं भागीरथीं तपोधनानामृषीणामभिषेकाय स्नानाय प्रवर्तयामास प्रवाहयामास । किलेत्यैति ॥
अन्वयः - अत्र अनुसूया सप्तर्षिहस्तोद्धृतहेमपद्मां त्र्यम्बकमौलिमालां त्रिस्रोतसं तपोधनानाम् अभिषेकाय प्रवर्तयामास किल ।
=
व्याख्या - अत्र = आश्रमवने अनुसूया = अत्रिपत्नी सप्त च ते ऋषयः सप्तर्षयः सप्तर्षीणां = मरीच्यंगिरादीनां हस्तैः करैः उद्धृतानि = त्रोटितानि हेम्नः = सुवर्णस्य पद्मानि = कमलानि यस्याः सा तां सप्तर्षिहस्तोद्धृत हेमपद्माम् । त्रीणि अम्बकानि = नयनानि यस्य सः । “अम्बकं नयनं दृष्टि: " इति हलायुधः । त्रयाणां लोकानाम् अम्बकः = पिता । त्रीन् वेदान् अम्बते : शब्दायते । त्रिषु लोकेषु कालेषु वा अम्बः = शब्दो वेदलक्षणः यस्य सः इति वा, त्रयः अकारोकारमकाराः अम्बाः = शब्दाः वाचकाः यस्येति वा त्र्यम्बकः । त्र्यम्बकस्य = शिवस्य मौलि: : चूडा शिरः इत्यर्थः । इति त्र्यंम्बकमौलिः तस्य माला = स्रुक् तां त्र्यम्बकमौलिमालां त्रीणि स्रोतांसि ययाः सा स्रोताः = तां त्रिस्रोतसं = गंगां, तपः = तपस्या एव धनं = वित्तं येषां ते तेषां तपोधनानां = मुनीनां तपस्विनाम् अभिषेकाय = स्नानाय प्रवर्तयामास = प्रवाहयाञ्चकार विल = इति ऐतिह्ये । एवं जनाः कथयन्तीत्यर्थः ।
=