________________
त्रयोदशः सर्गः
१६० गिरेः समीपेऽनुगिरम् । 'गिरेश्च सेनकस्य' इति समासान्तष्टच्यत्ययः । सुजातः स तमालोऽयं दृश्यते । यस्य तमालस्य । शोभनो गन्धो यस्य तत्सुगन्धि । 'गन्धस्य-' इत्यादिनेकारः समासान्तः । प्रवालं पल्लवमादाय मया ते यवाङ्कुरवदापाण्डौ कपोले शोभी शोभते यः सोऽवतंसः परिकल्पितः ॥
अन्वयः-अनुगिरम् सुजातः “सः” तमालः अयम् “दृश्यते" यस्य सुगन्धि प्रवालम् आदाय, मया ते यवांकुरापाण्डुकपोलशोभी अवतंसः परिकल्पितः ।
व्याख्या-गिरेः= पर्वतस्य समीपे, अनुगिरम् सुष्टु जातः सुजातः =सुन्दरः प्रिय इत्यर्थः। ताम्यतीति तमाल:=तापिच्छवृक्षः प्रसिद्धः, अयं = पुरो दृश्यते । यस्य =तमालस्य सुशोभनः गन्धः =आमोदः यस्य तत् सुगन्धि = सुरभि, प्रवालं =किसलयं आदाय = गृहीत्वा मया = रामचन्द्रेण ते = तव-सीतायाः, यवस्य = धान्यविशेषस्य अंकुरः = नवोद्भित् इति यवाङ्करः । यवाङ्करवत् आपाण्डुः- केतकीधूलोसन्निभः कपोल: = गण्डः तस्मिन् शोभते =शालते यः स यवांकुरापाण्डुकपोलशोभी “पाण्डुस्तु पीतभागाधः केतकीबूलिसन्निभः" इति शब्दार्णवः । अवतंसः = कर्णभूषणं परिकल्पितः = कृतः। यस्य तमालवृक्षस्य पल्लवमादाय मया ते कर्णाभरणं पूर्व कृतं सोऽयं प्रियस्तमालः दृश्यते इत्यर्थः ।
समासः-गिरेः समीपे अनुगिरम् । सुष्ठु जातः सुजातः। शोभनः गन्धः यस्य तत् सुगन्धि । यवस्य अंकुरः यवांकुरः। यवांकुरवत् आपाण्डुः इति यवांकुरापाण्डुः, यवांकुरापाण्डुः यः कपोलः इति यवांकुरापाण्डुकपोलस्तस्मिन् शोभी इति यवांकुरापाण्डुकपोलशोभी ।
हिन्दी-पर्वत के पास ही सुन्दर प्रिय जो तमाल का पेड़ दीख रहा है। यह वही है जिसके सुगन्धवाले कोमल पत्ते लेकर मैंने तुम्हारे लिये कर्णाभरण ( कर्णफूल) बनाया था, जो कि तुम्हारे जौ के अंकुर के समान पीले गालों पर लटकता हुआ बड़ा सुन्दर लग रहा था ॥ ४९ ॥
अनिग्रहत्रासविनीतसत्वमपुष्पलिङ्गात्फलबन्धिवृक्षम् ।
वनं तपःसाधनमेंतदराविष्कृतोदनतरप्रभावम् ॥ ५० ॥ अनिग्रहत्रासा दण्डभयरहिता अपि विनीताः सत्वा जन्तवो यस्मिस्तत् । अपुष्पलिङ्गात्पुष्परूपनिमित्तं विनैव फलबन्धिनः फलग्राहिणो वृक्षा यस्मिंस्तत्। अत एवाविष्कृतोदग्रतरप्रभावमोर्मुनेस्तपसः साधनं वनमेतत् ॥
अन्वयः-अनिग्रहत्रासविनीतसत्त्वम्, अपुष्पलिंगात् फलबन्धिवृक्षम् “अत एवं" आविष्कतोदग्रतरप्रभावम् अत्रेः मुनेः तपःसाधनम् एतत् वनम् । __व्याख्या-निग्रहात् = दण्डात् त्रासः = भयं येषान्ते निग्रहत्रासाः। न निग्रहत्रासाः अनिग्रहत्रासाः । अनिग्रहत्रासाः अपि विनीताः नम्राः हिंसापरस्परद्वेषशन्या इत्यर्थः। सत्वाः= प्राणिनः यस्मिन् तत् अनिग्रहत्रासविनीतसत्त्वम् । पुष्पं = कुसुमं लिंग - निमित्तं तत् पुष्पलिंग, न तत् अपुष्पलिंगं तस्मात् अपुष्पलिंगात्, पुष्परूपकारणं विनैव, फलानि = आम्रफलादीनि अनुब