________________
१६६
रघुवंशे
उपमा दी है । सांड गर्जता है । मिट्टी अपने ऊपर गिराता है । पर्वत भी गुहा रूपी मुखसे जल धारा-से गर्जता है एवं काले-काले मेघरूपी कीचड़ भी शिखररूपी सींगों पर लगा है ॥ ४७ ।।
एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरमावतन्वी।।
मन्दाकिनी माति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥ ४८ ॥ प्रसन्नो निर्मलः स्तिमितो निःस्पन्दः प्रवाहो यस्याः सा विदूरस्यान्तरस्य मध्यवर्त्यवकाशस्य भावात्तन्वी दूरदेशवर्तित्वात्तनुत्वेनावभासमाना मन्दाकिनी नाम काचिच्चित्रकूटनिकटगैषा सरिन्न. गोपकण्ठे । भूमः कण्ठगता मुक्तावलीव भाति । अत्र नगस्य शिरस्त्वं तदुपकण्ठस्य कण्ठत्वं च गम्यते ॥
अन्वयः-प्रसन्नस्तिमितप्रवाहा विदूरान्तरभावतन्वी मन्दाकिनी नाम एषा सरित् नगोपकण्ठे भूमेः कण्ठगता मुक्तावली इव भाति ।
व्याख्या-प्रसन्नः = अच्छः = निर्मलः स्तिमितः =निःस्पन्दः शब्दशून्यो मन्दगतिरित्यर्थः । प्रवाहः- प्रवृत्तिः, अविच्छेदेन गतिरित्यर्थः, यस्याः सा प्रसन्नस्तिमितप्रवाहा, विदूरं = विप्रकृष्टञ्च तदन्तरम् = मध्यवयंवकाशः, इति विदूरान्तरं तस्य भावः = सत्ता तस्मात् तन्वी = कृशत्वेन प्रतीयमाना इति विदूरान्तरभावतन्वो, सुदूरस्थत्वात् तनुत्वेन भासमानेत्यर्थः । 'भावः सत्तास्वभावः' इत्यमरः । मन्दम् अकितुं = कुटिलं गन्तुं शीलमस्याः सा मन्दाकिनी नाम सरित् = नदी गंगा उपगतः कण्ठमिति उपकण्ठम् । उपगतः कण्ठः = सामीप्यमस्यति वा उपकण्ठम् नगस्य = पर्वतस्य उपकण्ठमिति नगोपकण्ठं तस्मिन् नगोपकण्ठे =चित्रकूटपर्वतसमीपे भूमेः पृथिव्याः कण्ठे-ग्रीवायां गता = प्राप्ता, कण्ठगता मुक्तानां मौक्तिकानाम् आवली =दीर्घा पंक्तिरिति मुक्तावली इव = यया भाति = शोभते । अत्र चित्रकूटपवर्तस्य शिरस्त्वं तत्समीपस्य कण्ठत्वं गम्यते।
समासः = प्रसन्नः स्तिमितः प्रवाहो यस्याः सा प्रसन्नस्तिमितप्रवाहा । विदूरञ्च तदन्तरमिति बिदूरान्तरं, विदूरान्तरस्यभावः, विदूरान्तरभाव स्तस्मात् तन्वी इति विदूरान्तरभावतन्वी। नगस्य उपकण्ठं नगोपकण्ठं तस्मिन् नगोपकण्ठे। कण्ठं गता कण्ठगता। मुक्तानाम् आवली मुक्तावली।
हिन्दी-निर्मल जलवाली, धीरे-धीरे बहती हुई, एवं दूर होने के कारण पतली दीख रही, यह मन्दाकिनी नाम की गंगा, चित्रकूट पर्वत के समीप ( सटकर ) बहती हुई ऐसी सुशोभित हो रही है मानो पृथिवी के गले में मोतियों की लम्बी सी माला है।
विशेष—मन्दाकिनी "अक कुटिलायां गतौ” से णिनि प्रत्यय होकर बनता है । मन्द-मन्द टेढ़ी मेढ़ी चलने के स्वभाव वाली मन्दाकिनी। यहाँ पर पृथिवी नायिका है। चित्रकूट का शिर तथा पर्वतसमीप उसका कण्ठ हुआ और लम्बी पतली निर्मल जलवाली धीरे-धीरे चुपचाप चलती मन्दाकिनी मुक्तावली हुई । यह भाव प्रकट होता है ॥ ४८ ॥
अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य । यवाङ्कुरापाण्डुकपोलशोभी मयावतंसः परिकल्पितस्ते ॥ ४९ ।।