________________
त्रयोदशः सर्गः
१६९
समासः—सप्त च ऋषयः सप्तर्षयः, तेषां हस्ताः तैः उद्धृतानि हेम्नः पद्मानि यस्याः सा त्तां सप्तर्षिहस्तोद्धृतहेमपद्माम् । त्रीणि अम्बकानि यस्य स त्र्यम्बकः, तस्य मौलिरिति त्र्यम्बकमौलिः, त्र्यम्बकमौलेः माला, तां त्र्यम्बकमौलिमालाम् । त्रीणि स्रोतांसि यस्याः सा त्रिस्रोताः, तां त्रिस्रोतम् । तपः एव धनं येषां ते तपोधनास्तेषां तपोधनानाम् ।
हिन्दी -महर्षि अत्रि की धर्मपत्नी सती अनुसूया ने इस वन में तीन प्रवाह ( तीन मार्गों से बहने ) वाली उस गंगा जी को तपस्वी ऋषियों के स्नान करने के लिये बहाया था, जिसमें मरीचि आदि सप्तर्षिगण अपने हाथों से सोनें के कमल तोड़ते थे, और जो शिव जी के जटाजूट की माला है। अर्थात् शिर पर माला के समान सुन्दर लग रही है। यह बात लोग परम्परा से कहते आ रहे हैं ॥ ५१ ॥
वीरासनैर्ध्यान जुषामृषीणाममी समध्यासितवेदिमध्याः ।
निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि । ५२ ॥
वीरासनैर्जपसाधनैः। ध्यानं जुषन्ते सेवन्त इति ध्यानजुषः तेषां तैरुपविश्य ध्यायतामृषीणां संबन्धिनः समध्यासितवेदिमध्याः । इदं वीरासनस्थानीयम् । अमी शाखिनोऽपि निवाते निष्कम्पतया योगाधिरूढा इव ध्यानभाज इव विभान्ति । ध्यायन्तोऽपि निश्चलाङ्गा भवन्ति । वीरासने, वसिष्ठः— ‘एकपादमथैकस्मिन्त्रिन्यस्योरुणि संस्थितम् । इतरस्मिंस्तथा चान्यं वीरासनमुद्राहृतम् ॥' इति ॥
अन्वयः - वीरासनैः ध्यानजुषां ऋषीणां समध्यासितवेदिमध्याः अमी शाखिनः प निवातनिष्कम्पतया योगाधिरूढाः इव विभान्ति ।
व्याख्या - वीरयन्तीति वीराः । विशेषेण ईरयन्ति = दूरीकुर्वन्ति शत्रून् इति वीराः । वीराणां = साधकानाम् आसनानि = पीठानि, आसनबन्धविशेषाः । तैः वीरासनैः ध्यानम् = आत्मचिन्तनं जुषन्ते = सेवन्ते इति ध्यानजुषस्तेषां ध्यानजुषां = समाधिसेविनामित्यर्थः ऋषन्ति = जानन्तीति ऋषयस्तेषां ऋषीणां = मंत्रद्रष्टृणां वीरासनैरुपविश्य ध्यायतां ऋषीणां संबन्धिनः । वेदिः = परिष्कृता भूमिस्तस्याः मध्यः = अन्तरमिति वेदिमध्यः, अध्यासितः = अधिष्ठितः वेदिमध्यः यैस्ते अध्यासितवेदिमध्याः अमी = पुरोवर्तिनः शाखाः सन्ति येषां ते शाखिनः = वृक्षाः अपि निवाते = वायुशून्यप्रदेशे निष्कम्पाः = स्थिराः, तेषां भावस्तत्ता तया निवातनिष्कम्पतया योगं : विषयनिवृत्ति, यमादिकं वा अधिरूढाः = प्राप्ताः इति योगाधिरूढाः इव = यथा, ध्यानमग्ना इवेत्यर्थः विभान्ति = शोभन्ते |
=
समासः— वीराणाम् आसनानि तैः वीरासनैः । समध्यासितः वेदिमध्यः यैस्ते समध्यासितवेदिमध्याः । निवाते निष्कम्पः निवातनिष्कम्पः, तस्य भावस्तत्ता तया निवातनिष्कम्पतया । योगम् अधिरुढाः योगाधिरूढाः । ध्यानस्य जुषः, तेषाम् ।
हिन्दी - वीरासन से बैठकर ध्यान लगाने वाले, ऋषियों के संबन्धी ( अर्थात् जिनके