________________
रघुवंशे बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः ।
रराज रक्षःकायस्य कण्ठच्छेदपरम्परा ।। १०० ।। पतिष्यत आसन्नपातस्य रक्षःकायस्य रावणकलेवरस्य छिद्यन्त इति छेदाः खण्डाः। कण्ठानां ये छेदास्तेषां परम्परा पङ्क्तिः । वीचिभिभिन्ना नानाकृताप्सु बालार्कस्य प्रतिमा प्रतिबिम्बमिव रराज । अर्कस्य बालविशेषणमारुण्यसिद्धयर्थमिति भावः ।
अन्वयः--पतिष्यतः रक्षःकायस्य कण्ठच्छेदपरम्परा वीचिभिन्ना अप्सु बालार्कप्रतिमा इव रराज।
व्याख्या--पतिष्यतीति पतिष्यन् तस्य पतिष्यतः = आसन्नपतनस्य, आसन्नमरणस्येत्यर्थः । रक्षसः =रावणस्य कायः= देहस्तस्य रक्षःकायस्य =रावणशरीरस्येत्यर्थः । छिद्यन्ते इति छेदाः। कण्ठानां = गलानां छेदाः = खण्डाः इति कण्ठच्छेदाः। कण्ठच्छेदानां परम्परा पंक्तिः इति कण्ठच्छेदपरम्परा। वीचिभिः = तरंगैः भिन्ना= भेदिता, इति वोचिभिन्ना, तरंगैः नानाकृता, इत्यर्थः । अप्सु =जलेषु बाल:= प्रातःकालिकश्चासौ अर्कः = सूर्यः, इति बालार्कः, बालार्कस्य = रक्तसूर्यस्य प्रतिमा =सदृशी, प्रतिबिम्बम् इव = यथा रराज = शुशुभे ।
समासः-बालश्चासौ अर्कः बालार्कः, बालार्कस्य प्रतिमा इति बालार्कप्रतिमा। रक्षसः कायस्तस्य रक्षःकायस्य । वीचिभिः भिन्ना वीचिभिन्ना। कण्ठानां छेदाः कण्ठच्छेदास्तेषां परम्परा कण्ठच्छेदपरम्परा ।
हिन्दी-मरने वाले राक्षस के शरीर के कटकर गिरते हुए शिरों के टुकड़ों की पंक्ति ऐसी सुन्दर लग रही थो, जैसे कि जल में चंचल तरंगों से अनेक हुए, प्रातः कालीन ( लाल ) सूर्य का प्रतिबिम्ब शोभा देता है । १०० ।।
मरुतां पश्यतां तस्य शिरांसि पतितान्यपि ।
मनो नातिविशश्वास पुनः संधानशङ्किनाम् ॥ १०१ ॥ पतितानि तस्य रावणस्य शिरांसि पश्यतामपि पुनःसंधानशकिनाम् । पूर्व तथादर्शनादिति भावः। मरुताममराणाम् । 'मरुतौ पवनामरौं' इत्यमरः । मनो नातिविशश्वासातिविश्वासं न प्राप ।।
अन्वयः--पतितानि तस्य शिरांसि पश्यताम् अपि पुनः संधानशंकिनां मरुतां मनः न अतिविशश्वास।
व्याख्या--पतितानि = भूमौ लुठितानि तस्य = रावणस्य शिरांसि = मस्तकानि पश्यताम् = ! अवलोकयताम् अपि पुनः = भूयः सन्धानं =ग्रीवया योजनं शंकन्ते तच्छीलाः, पुनः सन्धान
शंकिनस्तेषां पुनः सन्धानशं किनां छिन्नानां रावणशिरसां पुनः कबन्धयोजनशंकावतामित्यर्थः । मरुतां = देवानां मनः = चित्तं न अतिविशश्वास= पूर्णरूपेण विश्वासं न कृतवत् ।
समासः--पुनः सन्धानस्य शंकिनः पुनःसन्धानशंकिनस्तेषां पुनःसन्धानशंकिनाम् ।