________________
द्वादशः सर्गः
हिन्दी-कटकर पृथिवी में पड़े हुए रावण के शिरों को देखते हुए भी, फिर से जुड़ जाने की आशंका करने वाले देवताओं के मन ने पूरा विश्वास नहीं किया। अर्थात् उनके मन में यह डर था कि रावण के शिर फिर से न जुड़ जायें ।। १०१॥
अथ मदगुरुपर्लोकपालद्विपाना.
मनुगतमलिवृन्दैर्गण्डभित्तीविहाय । उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः
सुरभि सुरविमुक्तं पुष्पवर्ष पपात ॥ १०२ ।। अथ मदेन गजगण्डसंचारसंक्रान्तेन गुरुपक्ष रायमाणपक्षरलिवृन्दैलोकपालद्विपानामरावतादोनां गगनवर्तिनां डण्डभित्तीविहायानुगतमनुद्रुतं सुरभि सुगन्धि । 'सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः। गन्धोपले सौरभेय्यां सल्लकीमातृभेदयोः॥ सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभि स्मृतम् ।।' इति विश्वः। सुरविमुक्तं पुष्पवर्षमुपनत आसन्नो मणिबन्धो राज्याभिषेकसमये भावी यस्य तस्मिन्पौलस्त्यशत्रोः रामस्य मूर्ध्नि पपात । इदमेव राज्याभिषेकसूकचकमिति भावः ।।
अन्वयः--अथ मदगुरुपक्षैः अलिवृन्दैः लोकपालद्विपानां गण्डभित्तीः विहाय अनुगतं सुरभि सुरविमुक्तं पुष्पवर्षम् उपनतमणिबन्धे पौलस्त्यशत्रोः रामस्य मूर्ध्नि पपात ।
व्याख्या--मदेन = मदजलेन, गजगण्डस्थले संचारलग्नेन गुरवः=भारायमाणाः पक्षाःगरुतः येषान्ते तैः मदगुरुपक्षैः अलीनां = भ्रमराणां वृन्दानि =समूहा स्तैः अलिवृन्दैः । लोकान् पालयन्तीति लोकपालाः । लोकपालानां द्विपाः हस्तिनः ऐरावतादय इत्यर्थः । तेषां लोकपालद्विपानां आकाशवर्तिनामैरावतादीनामित्यर्थः। गण्डानां = कटानां, गजकपोलानामित्यर्थः । भित्तयः = स्थलानि इति गण्डभित्तयस्ताः गण्डभित्तीः विहाय = परित्यज्य अनुगतम् = अनुद्रुतं सुरभि = सुगन्धि सुरैः= देवैः विमुक्तं = त्यक्तमिति सुरविमुक्तम् । पुष्पाणां कुसुमानां वर्ष = वृष्टिरिति पुष्पवर्षम्, मणिः बध्यते यत्र स मणिबन्धः। उपनतः= प्राप्तः, आसन्नः मणिवन्धः राजाभिषेकावसरे मुकुटमणिधारणं यस्य स तस्मिन् उपनतमणिबन्धे, पौलस्त्यस्य = रावणस्य शत्रः = अरिः पौलस्त्यशत्रुस्तस्य पौलस्त्यशत्रोः रामस्यमूर्ध्नि = मस्तके पपात = अपतत् । रावणमरणानन्तरं देवैः रामस्योपरि पुष्पवर्षणं कृतमित्यर्थः ।
समासः = मदेन गुरवः पक्षाः येषां ते तैः मदगुरुपक्षैः। अलीनां वृन्दानि तैः अलिवृन्दैः । लोकपालानां द्विपाः लोकपालद्विपास्तेषां लोकपालद्विपानाम् । गण्डानां भित्तयस्ताः गण्डभित्तीः । सुरैः विमुक्तमिति सुरविमुक्तम् । पुष्पाणां वर्षमिति पुष्पवर्षम् । पौलस्त्यस्य शत्रु रिति पौलस्यशत्रुस्तस्य पौलस्त्यशत्रोः ।
हिन्दी-इसके बाद रावण को मारने वाले रामचन्द्रजी के जिस मस्तक पर राज्याभिषेक के समय रत्न जड़ित मुकुटादि पहनाया जाने वाला है । उस मस्तक पर देवताओं से छोड़ी गई सुगन्धित उन पुष्पों की वर्षा हुई, जिन के पीछे-पीछे मद से भीगे अतः भारी पंखों वाले भौरों के झुण्ड, दिशाओं के हाथी ऐरावतादि के मद बहाने वाले कपोलों को छोड़ कर दौड़ पड़े ॥१०२॥